All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
लान्तवर्गः · द्व्यक्षरलान्ताः
इत्येकाक्षरलान्ताः ।
हली कृषीकले पुंसि कृष्णस्यैवाग्रजन्मनि ।पलं स्यान्मत्सरे मांसे मल्लो मल्लकशक्तयोः ॥स्थली खनित्रे कुद्दाले क्षेत्रभेदे नपुंस्यपि ।खलो नीचे दुर्जने च कुलटायामपि स्त्रियाम् ॥हर्षितेऽव्यक्तमधुरे रवे स्याद्वाच्यलिङ्गकः ।कला शिल्पे कालभेदे चन्द्रांशे शकलेऽपि च ॥वित्तवृद्धौ च मूले च सुषुमाविद्ययोस्तथा ।तत्तदागमसिद्धासु गुरुणि स्त्रीरजस्यपि ॥कलं शुक्रे वाच्यलिङ्गमव्यक्तमधुरे ध्वनौ ।कामशास्त्रे च संगीते मन्त्रशास्त्रेऽपि च स्त्रियाम् ॥कलिः स्यात्कलहे शूरे देशेऽप्यन्तयुगे पुमान् ।पापे च कैतवे शोके कालस्तु यमकृष्णयोः ॥महाकालेऽपि समये मृत्युमञ्जिष्ठयोः पुनः ।काली गौर्यां क्षीरकीटे नील्यां त्रिद्यति(?)च स्त्रियाम् ॥तलं क्लीबे तालतरौ पेटे ज्याघातवारणे ।खड्गमुष्टौ वितस्तौ च स्वरूपेऽधरपृष्ठयोः ॥तालः कालक्रियामाने करास्फोटद्रुभेदयोः ।वाद्यभाण्डेऽपि कांस्ये च तालं तु हरितालके ॥बलं गन्धे रसे धूपे स्वामिनि स्थौल्यसैन्ययोः ।शक्त्याभिमानयोः क्लीबे पुंसि तु स्याद्धलायुधे ॥बलिस्तु दैत्यभेदे च बलवत्काकयोः पुमान् ।अस्त्री चामरदण्डे च त्वक्कोचे गृहदारुणि ॥नैवेद्ये गन्धके पाणौ वली चापि प्रकीर्तितः ।वाट्यालके बला तूक्ता वलं चोन्मादमानयोः ॥बालो मूर्खेऽर्भके व्यालग्राहावश्वेभपुच्छयोः ।ह्रीबेरकेशयोर्बाला योषिद्भूषात्रुटीषु च ॥शुक्लः शुभ्रे रेतसि च रोगभेदे च वत्सरे ।कुलं वर्गे समूहे च देहे गोत्रे गुणेऽपि च ॥सजातीये जनपदे मन्दिरे च नपुंसकम् ।मूलं तु रोगे नक्षत्रे शिफायामन्तिकाद्ययोः ॥स्वीये वशीकृते चाथ जालमानायवृन्दयोः ।गवाक्षे क्षारके दम्भे कोशतक्यां स्त्रियां भवेत् ॥वेला काले जलनिधेस्तीरनीरविकारयोः ।अक्लिष्टमरणे रागे सीम्नि वारिबुधस्त्रियोः ॥मर्यादायां चाथ फलं फले मांसे धनेऽपि च ।भोगे लाभे च निष्पत्तौ बीजबाणाग्रयोरपि ॥सस्ये हेतुकृते जातिफले च फलकेऽपि च ।कर्कोले त्रिफलावार्क्षु मुक्ताधान्यकणेषु च ॥मुष्टौ कर्षचतुष्के स्यात्पलं चापि प्रयोजने ।लीला तु विभ्रमे हेतौ क्रियायां भाविलासयोः ॥कीलो धूर्ते रथाक्षे च शङ्कौ ज्वालामहीध्रयोः ।स्त्रियां कपोणिनिर्घाते प्रहारे रतिसंभवे ॥पुलः स्यात्पुलके चापि विशाले महतीष्यते ।खिलमप्रहते शून्ये उत्तप्तौ केवले त्रिषु ॥मौलिः किरीटे चूडायामशोके संयते कचे ।पीलुर्गजे शरे पुष्पे परमाणुद्रुभेदयोः ॥व्यालः पुंसि शठे सर्पे श्वापदे दुष्टकुञ्जरे ।मलोऽस्त्री पापविट्किट्टकृपणेषु त्रिषूच्यते ॥वसायामपि शूलं तु ध्वजे योगान्तरे रुजि ।आयुधे विक्रये वध्याशङ्कौ गर्भेऽपि योषिताम् ॥आलिः पङ्क्तौ वयस्ये स्याद्भृङ्गे पालिस्तु पुंसि वा ।अंशभेदे च पङ्क्तौ च संजातश्मश्रुयोषिति ॥अस्रे च कर्णतालाग्रे यूके प्रस्थे च कथ्यते ।शील स्वभावे सद्वृत्ते चेलं वस्त्रेऽधमे त्रिषु ॥जिषि (?) स्त्रियामथ स्थूलं पीवरे च जडेऽपि च ।एला सूक्ष्मे त्रुटौ स्त्री स्याल्लोलश्चलसतृष्णयोः ॥भल्लो भल्लूकशरयोर्वार्तासंभाव्ययोः किल ।अलं भूषणपर्याप्तिशक्तिवारणवाचके ॥निषेधवाक्यालङ्कारे जिज्ञासानुनये खलु ।
29.2.1 · p. 77
अनुष्टुप्