कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

वान्तवर्गः · द्व्यक्षरवान्ताः

इत्येकाक्षरवान्ताः ।

भवः संसारसंतप्तिश्रेयःशंकरजन्मसु ।उपादाने भस्मनि च सत्ताप्राप्त्योश्च वत्सरे ॥भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ।क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु ॥रतिवेगे शब्दवृत्तौ निमित्ते रसबन्धिनि ।प्राप्तौ च भवसंबन्धे योनौ च स्याद्विकल्पने ॥त्रिषु भं भामवति भे (?) प्रभावे च पुमान्भवेत् ।नवस्तु नूतने सौम्ये संख्यायामपि तत्त्रिषु ॥सूर्ये समुद्रतरणौ पटे नावा स्त्रियामपि ।जीवो वृक्षे सुरगुरौ तन्तौ प्राणे च जीविते ॥जीवा जीवन्तिकाभूम्योर्वचामौर्व्योस्त्रिषूच्यते ।धवः पतौ नरे धूर्ते धूतपादपयोरपि ॥हवो यज्ञे तथाह्वाने स्यान्निदेशाज्ञयोः पुमान् ।ध्रुवः कीले शिवे शङ्कौ वंशे योगे वसौ मुनौ ॥निश्चिते निश्चले तर्के नक्षत्रे शाश्वते वटे ।स्रुचि मौर्व्यां तालभेदे स्त्रियामथ शिवं शुभे ॥मोक्षे सुखे च सलिले माने योगे मनोहरे ।शिवो हरे गुग्गुलौ च कीले चालुकि (?) वालुके ॥पुण्डरीकद्रुमे स्त्री तु भवान्यां जम्बुकेऽपि च ।अभयायां नदीभेदे चामलक्यां महौषधौ ॥झाटाशम्योश्चाभयायां चाथ देवः सुरे घने ।राज्ञि क्लीबं त्विन्द्रिये स्त्री तेजनीस्पृक्कयोरपि ॥भट्टारिकायां द(दा?)र्वी तु देवदारुहरिद्रयोःस्रुचि दारुहरिद्रायां सत्त्वं द्रव्ये बले गुणे ।स्वभावे च पिशाचादौ व्यवसायेऽपि प्राणिषु ॥चित्तसद्भावयोर्जन्तावैश्वर्यामोदयोरपि ।विश्वं समस्ते जगति विश्वेदेवेषु नागरे ॥वा पुंसि स्यात्स्त्रियां विश्वातिविषाकरशब्दयोः ।द्वंद्वं रहस्ये कलहे युग्मे पात्रप्रसाधने ॥दिवं स्वर्गेऽन्तरिक्षे च लवो रामात्मजे कुशे ।विनाशे छेदने दावदवौ वनवनानलौ ॥नीवी स्याद्बन्धनागारे धने स्त्रीवस्त्रबन्धने ।अविर्गिरौ रवे मेषे मूषिके कम्बलेऽपि च ॥पूर्वोऽन्यलिङ्गः प्राचि स्यात्पुं बहुत्वेऽपि पूर्वजे ।प्लवो भेके कपौ वर्षे नावे चेवेत्थमर्थयोः ॥एवं चाथ युवो वर्षभेदे यूनि पुमान्भवेत् ।
30.2.1 · p. 82
अनुष्टुप्metre not read in every line