कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

क्षान्तवर्गः · एकाक्षरक्षान्ताः

इति चतुरक्षरळान्ताः ।

क्षः संरोधे विरोधे च क्षेमदुःस्वप्नयोश्च ना ।क्षा स्त्री क्षमायां निद्रायां क्षं क्लीबे क्षेत्ररक्षसोः ॥
36.1.1 · p. 94
अनुष्टुप्

इत्येकाक्षरक्षान्ताः ।

अक्षो द्यूते वरूथाङ्गे नयवादौ विभीतके ।कर्षे व्याप्तौ कृषे चक्रे आधारव्यवहारयोः ॥आत्मजे पाशके दैत्यभेदे चेन्द्रियवालयोः ।ध्वाङ्क्षः काके बके वक्षः कर्षे वत्से विभूषणे ॥कक्षः पार्श्वे परीधाने पश्चादञ्चलपल्लवे ।बाहुमूले तृणे सौरभे शुष्कनववीरुधोः ॥स्त्रियां ग्रहणिकाकाञ्चीप्रकोष्ठग्रहरज्जुषु ।स्पर्धापदोः स्यान्दनस्य भागे दक्षः प्रजापतौ ॥पटौ हरवृषे ताम्रचूडे वह्नौ द्रुमे मुनौ ।स्त्रियां भुव्यधि(?)पक्षस्तु मासार्धे ग्रहपार्श्वयोः ॥केशादेः परतो वृन्दे बले सखिसहाययोः ।पतत्रचुल्लिरन्ध्रेषु देहाङ्गे राजकुञ्जरे ॥साध्ये विरोधे भित्तौ स्यात्परतन्त्रे कुचेऽपि च ।प्रेक्षा तु नृत्ते प्रज्ञायामीक्षणे चाथ सेवने ॥भिक्षा भृतौ च याच्ञायां नपुं भिक्षितवस्तुनि ।न्यक्षः परशुरामे स्यात्त्रिषु कार्त्स्न्यनिकृष्टयोः ॥रूक्षः स्यात्पादपेऽप्रेम्ण्यचिक्कणे पौरुषेऽपि च ।शिक्षस्तु दण्डने चाथ चक्षुरीक्षणनेत्रयोः ॥
36.1.2 · p. 94
अनुष्टुप्