All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
रेफान्तवर्गः · चतुरक्षररेफान्ताः
इति त्र्यक्षररेफान्ताः ।
अर्धचन्द्रस्तदाकारे बाणे बर्हे शिखण्डिनः ।शतपत्रं पक्षिभेदे दारुघाते कुशेशये ॥घनसारस्तु कर्पूरे महामेघे च चन्दने ।अलंकारः शास्त्रभेदे मण्डनेऽथ जवे पुमान् ॥उच्छ्राये चातिमात्रः स्यान्मद्गुरौ तु भयंकरः ।भये सहचरी तु स्यादनुचारे सहाशने ॥तुलाधरस्तु वणिजि श्लक्ष्णराशौ दिवाकरे ।संप्रहारो हृते युद्धेऽश्वतरः सुरवाजिनोः ॥कुलाङ्कुरो मूलदेशे चोरे करवटेऽपि च ।धार्तराष्ट्रो हंसभेदे दुर्योधनकुलेऽपि च ॥गिरिसारं तु लोहेऽपि लक्ष्मीपुत्रस्तु मन्मथे ।धनाढ्येऽश्वे परिकरः पर्यङ्कपरिवारयोः ॥प्रगाढे गात्रिकाबन्धे व्राते चारम्भसंज्ञयोः ।हस्तसूत्रे प्रतिसरो माल्यमन्त्रविशेषयोः ॥विभूषणे सैन्यपृष्ठे प्राणशुद्धौ च कङ्कणे ।पयोधरः स्तने मेघे नाळिकेरे च सागरे ॥इक्षुभेदे कशैरौ च धेनौ च परिचक्ष्यते ।अवस्करस्तु विष्ठायां गुह्ये चाडम्बरोऽस्त्रियाम् ॥तूर्यशब्दे च संरम्भे गजेन्द्राणां च गर्जिते ।अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे ।द्वारि द्वाःस्थे प्रतीहारः प्रतिहार्यप्यनन्तरे ॥राजस्त्रीणामलंकारः कृतायामपि च स्त्रियाम् ।दुरोदरो द्यूतकारे पणे द्यूते नपुंसि वा ॥अरुष्करो घातुके च व्रणकार्येऽप्यनुत्तरः ।नोदीच्यां नोपरि श्रेष्ठे चोपह्वरमुदाहृतम् ॥हायने सर्वधारी स्याद्रुधिरोद्गारि वत्सरे ।
28.4.1 · p. 76
अनुष्टुप्