कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

णान्तवर्गः · चतुरक्षरणान्ताः

इति त्र्यक्षरणान्ताः ।

तमोमणिस्तु खद्योते नीलमण्यामुडौ शशौ ।परायणमभिप्रीतौ तत्पराश्रययोरपि ॥पारायणं समासङ्गे कार्त्स्न्ये पारगतावपि ।सरोजिन्यां पुष्करिणी हस्तिन्यां च जलाशये ॥रोमावल्यां शिखरिणी वृत्तभेदरसालयोः ।स्त्रीरत्ने मल्लिकायां च स्यादुद्गिरणमुन्नये ॥वान्तान्नेऽथ रणारम्भे गोपुरे पुरनिर्गमे ।घण्टापथे संसरणमसंबाधे चमूगतौ ॥प्राण्युत्पादे मेघमणिर्मेलाम्बुमलिनाम्बुनोः ।
16.4.1 · p. 31
अनुष्टुप्