कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

मान्तवर्गः · त्र्यक्षरमान्ताः

इति व्द्यक्षरमान्ताः ।

ललाम च ललामं च भूषाप्राधान्यवाजिषु ।चिह्नप्रभावपुण्ड्रेषु पुच्छे कान्तौ त्रिषु ध्वजे ॥शृङ्गे च पुरुषश्रेष्ठे मध्यमस्तु त्रिलिङ्गके ।मध्यदेशे स्वरे रात्रौ छन्दोभेदेऽन्तरे नले ॥अङ्गुलौ कर्णिकायां च तथा दृष्टरजःस्त्रियाम् ।सत्तमश्चान्यवत्पूज्ये श्रेष्ठसाधीयसोरपि ॥नियमो यन्त्रणायां च प्रतिज्ञायां च संयमे ।शौचाध्वरतपःसत्यस्वाध्यायेषु व्रतेऽपि च ॥उपस्थनिग्रहे स्नाने पुंसि मौनोपवासयोः ।कुट्टिमं बद्धभूमौ स्याद्विभ्रमो भ्रान्तिशोभयोः ॥संशये भयसौन्दर्यविलासेषु प्रकीर्तितः ।निगमोऽस्त्री पुरे वेदे वाणिज्ये च वणिग्धने ॥नैगमो नागरे वैश्ये पुंसि स्याच्छ्रौतकर्मणि ।परमः स्यात्प्रधानाद्योरोंकारेऽपि पुरातने ॥अनुज्ञाने च कुमुमं नेत्ररोगे फले सुमे ।स्त्रीणां रजस्यथो तल्पे ता(च)न्द्रभासे वितानके ॥कुट्टिमे तलिम प्रोक्तं सुषमा परमद्युतौ ।सुषीमः शिशिरे चारौ सुषिरे पन्नगान्तरे ॥सुषमं चारुसमयोरजिह्मः सत्कृतावृजौ ।व्यायामो मानभेदे स्याद्दीर्घव्यापारयोः कृतौ ॥आगमः शास्त्रभेदे स्यात्कल्पागमनयोरपि ।अधमः कुत्सिते न्यूने अधःस्थध्यानयोरपि ॥विक्रमः स्याद्वर्षभेदे चाक्रान्तौ च पराक्रमे ।पूर्वे तिथौ च प्रथमः सुकर्म पुण्ययोगयोः ॥
26.3.1 · p. 60
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र्म (wrong syllable)