कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

तान्तवर्गः · त्र्यक्षरतान्ताः

इति द्वचक्षरतान्ताः ।

अमृतं वारिसुरयोर्निर्वाणे चातिसुन्दरे ।अयाचिते यज्ञशेषे पुंसि धन्वन्तरेऽपि च ॥पीयूषे च घृते दीप्तावाचार्ये विबुधेऽपि च ।हरीतक्यामामलक्यां गळूच्यामपि तत्स्त्रियाम् ॥ग्रथितं गुम्भिताक्रान्तसंहितेषु समीरितम् ।अनन्तः शेषविष्ण्वोश्चानवधौ क्लीबमम्बरे ॥स्त्रियां स्याच्छारिबादूर्वाविशल्यालाङ्गलीषु च ।हैमवत्यां गळूच्यां च निशान्तं गृहशान्तयोः ॥उषःकाले नपुंसि स्याद्वनिता जनिता च ते ।अबलात्यर्थरागेषु क्लीबं याचितदुर्गयोः ॥स्त्रैणे जलाशये चाथ गोपतिः शंकरे वृषे ।सूर्यमेघेन्द्रकृष्णेषु षण्डे भर्तरि पार्थिवे ॥आकृतिस्तु शरीरे स्याद्रूपसामान्ययोरपि ।समितिः समरे साम्ये सभायामपि च स्त्रियाम् ॥आहतं गुणिते नाट्ये ताडिते च मृषार्थके ।नववस्त्रेऽङ्गभेदे च नामके चाथ रोहितः ॥रुधिरे शक्रधनुषि धीरे वर्णे कुचन्दने ।गोशीर्षे च मदे भौमे कुङ्कुमे च ऋजौ तरौ ॥अस्त्रियां मीनमृगयोः प्रकृतिः पाञ्चभूतिके ।प्रधाने कारणे गुह्ये जन्तौ छन्दसि मातरि ॥अमात्ये च स्वभावे च पूजायां परमात्मनि ।विभूतिः संगृहीते स्याद्भस्मनि छन्नसंपदोः ॥विविक्तः स्यादसंपृक्ते रहस्यूर्जितपूतयोः ।अव्यक्तः शंकरे विष्णौ क्लीबे तु महदादिके ॥परमात्मन्यात्मनि च त्रिषु स्यादस्फुटेऽजितः ।अपराजितविष्ण्वीशपरमात्मसु कथ्यते ॥मनोज्ञतथ्यसुस्पष्टप्रियवाक्येषु सूनृतः ।क्लीबं तु मङ्गलेऽपि स्यादुदन्तः साधुवार्तयोः ॥उद्धते स्याद्विधूतं तु प्रतीतो ज्ञातहृष्टयोः ।सुकेतुः सुपताकायां यक्षसेनानिवेशयोः ॥प्रवृत्तिस्तु प्रवाहे स्याद्व्यापारे भ्रान्तिवार्तयोः ।मुहूर्तमल्पकाले च घटिकाद्वितयेऽपि च ॥ललितं त्रिषु ना भावभेदे सुन्दरनृत्तयोः ।अस्त्रियां प्रमदारामे क्रीडिते जातपल्लवे ॥संपातस्तु वशे योगे प्रवेशे वेदसंविदोः ।आसारे विजनेऽभ्यस्ते याचनाधारणार्थयोः ॥पुंसि स्यादुचितं न्याये सीमन्तः केशवेशने ।स्मार्तकर्मणि सीमान्तः प्रमाणे ग्रामभूमिनाम् ॥किरातो लुब्धके देववाहिनीमत्स्यभेदयोः ।सरस्वान्नदमात्रेऽब्धौ कुरुक्षेत्रकुबेरयोः ॥रसिके च विवस्वांस्तु देवतासूर्ययोरपि ।पक्षिमात्रे च गरुडे गरुत्मानथ कीर्तितः ॥जीमूतः पर्वते मेघे शकुन्तौ भासपक्षिणौ ।मरुतः पवने देवे स्पृक्कायां तु स्त्रियामपि ॥स्थपतिः कारुभेदे च कञ्चुकिन्यपि वर्तते ।वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ॥आनर्तः समरे नृत्तस्थाननीवृद्विशेषयोः ।कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥शुद्धान्तः कक्ष्यभेदे च नृपस्यासर्वगोचरे ।गुह्ये चान्तःपुरे दृष्टान्तः शास्त्रे च निदर्शने ॥विस्तारवल्ल्योर्व्रततिः वसती रात्रिवेश्मनोः ।महती पूजने वीणाभेदे स्यान्नारदस्य तु ॥जगती छन्दसि भुवि पक्षतिः पक्षभेदयोः ।मूले हंसमयूरादौ(देः?) सिकता वालुका अपि ॥आयतिस्तूत्तरे काले स्याद्दीर्घत्वप्रभुत्वयोः ।बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि ॥वासिता स्त्रीकरिण्योश्च कृतवासे नपुंसकम् ।भाविते स्तम्भितेऽपि स्याच्छादिते च त्रिषूच्यते ॥निमित्तं कारणे चिह्ने रजतं हेमरूप्ययोः ।सिते त्रिषु स्यान्नक्षत्रे हारवारणदन्तयोः ॥संस्कृतं लक्षणोपेते कृत्रिमे च प्रकीर्तितम् ।निवातस्त्वाश्रयेऽवाते शस्त्राभेद्ये च वर्म यत् ॥जातोन्नद्धप्रवृद्धेषु द्वौ स्यादुच्छ्रित उत्थितः ।वृद्धिमत्प्रोद्यतोत्पन्नावा(०न्नेष्वा)दृतौ सादरार्चितौ ।लोहितोङ्गारके रक्ते विहितं युक्तकर्मणोः ।अभ्यस्तेऽप्युचितं न्याये तथा परिचितेऽपि च ॥आवर्तः सलिलभ्रान्तौ संभ्रान्तौ तुरगागमे ।प्रचेता वरुणे श्रेष्ठे धीमत्यपि च वर्तते ॥उद्वर्तोत्तानितेऽपि स्यात्कीलितं बन्धितेऽपुमान् ।पुरस्तात्प्रथमे प्राच्यां पुरोर्थेऽग्रत इत्यपि ॥अभितः शीघ्रसाकल्योभयता(तो?)भिमुखेषु च ।समीपे च पुरस्ता(?)दावलिङ्गं स्यात्ततः पुमान् ॥मूर्छितस्तु मूढे स्यात्सोच्छ्रये च तदीरितम् ।दशान्तस्त्वतिवृद्धे च वर्त्यग्रेऽपि च पुंसि वा ॥
17.3.1 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्या (wrong syllable)nearly अनुष्टुप्