कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

सान्तवर्गः · चतुरक्षरसान्ताः

इति त्र्यक्षरसान्ताः ।

विश्वावसुर्वर्षभेदे गन्धर्वेऽपि च पुंस्ययम् ।आङ्गीरसस्त्वब्दभेदे मुनिभेदे तदीरितम् ॥अवतंसः कर्णपूरे शेखरे पुंसि वा भवेत् ।कुम्भीनसो भुजंगे स्यात्स्त्रियां लवणमातरि ॥मदालसा दैत्यवध्वां चन्द्रहासोऽसिमात्रके ।राजरावणयोश्चाथ सूर्ये वह्नौ विभावसुः ॥कुकलासोऽनेकवर्णे जन्तुभेदेऽपि कीर्तितः ।
33.4.1 · p. 91
अनुष्टुप्