All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
सान्तवर्गः · त्र्यक्षरसान्ताः
इति व्द्यक्षरसान्ताः ।
सारसः कमले शुभ्रे हंसे च जलपक्षिणि ।गोनर्दामैथुनीकामिष्वपुंसि तमसोऽस्त्रियाम् ॥नदीभेदेऽन्धकारे च श्रीवत्सस्त्वावृतौ बिले ।आहसो ललिते कृष्णे सुमनाः कुसुमे बुधे ॥मालत्यां त्रिदशे चाथ कनीयाननुजाल्पयोः ।अतियूनि स्त्रियां कामिन्युत्के मेथुनिभूतयोः ॥कृष्णातीरे च वाञ्छायामौत्सुक्ये लालसा द्वयोः ।याच्ञायामतिशङ्कायां रभसो वेगहर्षयोः ॥मानसस्तद्भवे स्वान्तेऽप्यञ्जसा तत्त्वतूर्णयोः ।पुंस्युत्तंसः कर्णपूरे शेखरे वा नपुंसकम् ॥दिवौकाश्चातके देवे स्यान्नक्षत्रकुरङ्गयोः ।स्त्रीलिङ्गे रोदसी भूम्यामन्तरिक्षे नपुंसि वा ॥बीभत्सः स्याद्रौद्ररसे हिंस्रे च विकृतेऽपि च ।वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥पीनसं स्याद्रोगभेदे राक्षसोऽसृक्पवर्षयोः ।
33.3.1 · p. 90
अनुष्टुप्