All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
लान्तवर्गः · चतुरक्षरलान्ताः
इति त्र्यक्षरलान्ताः ।
गण्डशैलः कपोले च द्रोणपाषाणभेदयोः ।महानीलो भृङ्गराजे मणिनागविशेषयोः ॥उत्कोचेऽस्त्री कटफलः कर्मशीलस्तु कर्मठे ।अनुकूलस्त्वनादेशे विधेयेऽनुगुणेऽपि च ॥महाबली दैत्यभेदे बलवत्यपि कथ्यते ।वनपङ्क्तौ विष्णुदाम्नि वनमाला प्रकीर्तिता ॥गोलाङ्गूलः कृष्णकपौ पशुपुच्छे नपुंसकम् ।तृणशालो राजताल्यां वेणौ रतिकिलः शुनि ॥
29.4.1 · p. 81
अनुष्टुप्