All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
कान्तवर्गः · त्र्यक्षरकान्ताः
इति व्द्यक्षरकान्ताः ।
आलोको दर्शने द्योते प्रबोधे वन्दिभाषणे ।करकः पक्षिभेदे स्यात्कमण्डलुकरङ्कयोः ॥डाडिमाक्रोशहस्तेषु पुं स्त्रियां तद्घनोपले ।करङ्को मस्तकास्थ्नि स्यान्नाळिकेरफलास्थनि ॥क्षेप्त्यसातकयोः (?) खड्गे कङ्कपत्रे च सायकः ।जम्बुकः क्रोष्टृवरुणनीचेष्वप्यथ पेचकः ॥उलूके करिणः पुच्छमूलोपान्ते च कथ्यते ।पृथुकश्चिपिटे बाले चानकः स्वनदम्बुदे ॥भेर्यां मृदङ्गे पटहेऽप्यथ लोहापवादयोः ।कलङ्कोऽङ्के कीटके स्यात्तक्षकस्तु भुजंगमे ॥वर्धकावथ पिण्याकस्तिलकल्के च कुङ्कुमे ।हिङ्गौ च सिल्हकेऽपि स्याद्बाह्लीको विषयाश्वयोः ॥देशभेदे च तत्क्लीबं हिङ्गौ कुङ्कुमवीरयोः ।गाण्डीवेऽपि पुलाकस्तु संक्षेपे भक्तसिक्थके ॥तुच्छधान्ये वृश्चिकस्तु राश्योषधिविशेषयोः ।शूककीटेऽपि प्रतीकः प्रतिकूले स्त्रियामयम् ॥एकदेशे तु पुंस्येव भूतिकं तु नपुंसके ।स्याद्भूनिम्बे भूस्तृणे च खर्जूरतृणदीप्ययोः ॥[ ज्योत्स्निकायां च घोषे च कोशातक्यध्वनि स्मृतम् । ]कौशिको मुनिभेदे च नकुले शक्रघूकयोः ।उद्गातरि कुशाजीवे कोशवत्यहितुण्डिके ॥गुग्गुलावप्यथ नदीकात्यायिन्योस्तु कौशिकी ।रुक्तापशङ्कास्वातङ्कः स्तबकोऽध्यायगुच्छयोः ॥स्वल्पे दरिद्रे नीचे स्यात्क्षुल्लकस्तु त्रिलिङ्गके ।स्याद्वर्तिके नवदले वर्तकोऽश्वखुरे विशि ॥दीपकः स्यादलंकारे यवान्यां जीरकेऽपि च ।दीपे च दीपनीयां(?) चाजमोदशिखिचूडयोः ॥पीडार्थेऽपि व्यलीकं स्यादपराधेऽप्रियेऽनृते ।कामजे पीनसे क्रौर्येऽकार्ये वैलक्ष्यतथ्ययोः ॥अलीकं त्वप्रिये स्वर्गे संघेऽनृतललाटयोः ।अनूकमस्त्रियां वंशे शीले च गतजन्मनि ॥पिनाकः शिवशूले स्यात्तस्य बाणासनेऽपि च ।स्त्रियां स्याद्धेनुका वाजियोषित्यपि पशौ गवि ॥भवान्यां च कृपाण्यां च प्रसूताकरियोषितोः ।क्षुरिकायां कालिका तु दिवाकीर्त्यां च शिल्पके ॥मेघजाले यातनायां वृत्तौ नटनयोषिति ।दोषे स्वर्णादिधातूनां कृष्णावृद्धिसुरासु च ॥क्रमदेये वस्तुमूल्ये योगिन्यम्बिकयोरपि ।पटोलशाखारोमालिमांसीज्याकालिमाचिषु(?) ॥धूसर्यां नवमेघे च ततः कर्णविभूषणे ।कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि ॥सूक्ष्मवस्तुन्यग्निमान्द्ये क्रमुकादिच्छटांशुके ।ताटङ्के वर्तुले पद्मबीजकोश्यां त्रिषूत्तरे ॥कटकोऽस्त्री राजधान्यां राशौ सानुनितम्बयोः ।सूच्यग्रे वलये दन्तावलानां दन्तमण्डले ॥सामुद्रलक्षणे चाथ जल्पाको मुकुरे पुमान् ।मेचकस्तिमिरे कृष्णवर्णे स्याद्वाच्यलिङ्गकः ॥ताटङ्कोऽस्त्री परीणाहे विटङ्के कर्णवेष्टने ।लम्पाको लम्पटे देशे ज्योतिषग्रन्थसंज्ञिते ॥किंपाकस्तु फले मूले पावकः पावनेऽनले ।विपाकः कीर्त्यते स्वादौ परिणामे च दुर्गतौ ॥निपाकः पचने स्वेदेऽप्यसत्कर्मफलेऽपि च ।पालिकाङ्कुरपात्रे स्यादुलूको राजघूकयोः ॥बालिका पिञ्छजाले स्यात्कन्यायां कर्णभूषणे ।मोचकः कदलीशिग्रुनिर्मोचकविरागिषु ॥अशोको वञ्जुले माने द्रमनिःशोकयोर्मतः ।वर्तते कटुरोहिण्यामथ क्रूरे च कामुके ॥भयहीने कलौ पुं स्यादभीकः प्रोच्यते ततः ।आह्निकं नित्यवृत्तौ स्याद्भोजने नित्यकर्मणि ॥हुडुको वाद्यभेदे स्याद्दात्यूहे मदवर्तने ।सृदाकुरनिले वज्रे दवाग्नौ प्रतिसूर्यके ॥तूलिका कथिता लेख्यकूर्चिकातूलशय्ययोः ।अनीकस्तु रणे सैन्ये संदेहेऽपि च कथ्यते ॥नवके दुर्जनेऽपि स्यादंशुकं नेत्रवस्त्रयोः ।वार्धकं वृद्धसंघाते वृद्धत्वे भाववृन्दयोः ॥कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः ।हस्तसूत्रे च कुतुके तवकः कपटेऽपि च ॥भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे ।नायको नेतरि श्रेष्ठे हारमध्यमणावपि ॥पताकोऽस्त्री वैजयन्त्यां तत्पटश्रेष्ठयोरपि ।आशङ्का नाशसंकोचभयतर्कग्रहेषु च ॥कोरकं कुड्मलेऽपि स्यात्तक्कोलकमृणालयोः ।शङ्खकं वलये कम्बुनिधिसंख्यानखेषु च ॥मणौ शीथौ शिथुवने नरकं मद्यभाजने ।निरये चाथ पुंसि स्याद्रासिको दक्षिणेऽपि च ॥वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने ।चन्द्रको मेचके चन्द्रे भूषणे बर्हबिन्दुके ॥नालीकं कमले शल्ये बाणेऽपि स्यादथोच्यते ।वंशनाले च द्रोणीको निर्मोकः परिमोचने ॥तमालपत्रे श्रेष्ठे च पादपे तिलकः पुमान् ।स्याद्दाम्भिकः कौक्कुटिके वञ्चकेऽप्यथ गैरिकम् ॥स्वर्णेष्टकादावलकः पुरोलम्बनकुन्तले ।कलिका कोरके हर्षे लासकः पञ्जरेऽस्त्रियाम् ॥नटयोषित्कुथो(?) धूर्ते जम्बुके भाषितेऽपि च ।अव्यक्तमधुरे श्रेष्ठे वञ्चकः परिकीर्तितः ॥घुटिका तु महारत्ने पिण्डे बद्धरसे मणौ ।लुब्धकः पुंसि शबरे चान्द्रायामभिलाषिणि ॥पर्यङ्कश्चापि पर्यङ्के मञ्चे परिकरेऽपि च ।कलङ्कः कृष्णवर्णे स्यात्तमाले तिलकेऽपि च ॥अंशुकं सूक्ष्मवस्त्रे स्यात्परिधानोत्तरीययोः ।किरणानां समूहे च मुखवस्त्रे तदिष्यते ॥जालकं पद्मके व्यूहे आनाये भूषणेऽनृते ।बिन्दौ वागुरिके पुंसि गवाक्षे क्षारकेऽपि च ॥कनीनिकायां नक्षत्रे मोक्षे स्यात्तारका स्त्रियाम् ।पिटकस्त्रिषु बृन्देऽपि पेटके चाथ जालिकः ॥किराते धीवरे हर्म्येन्द्रजालादियुतेऽपि च ।खेटकौ ग्रामफलकौ गुरौ देश्ये च देशिकः ॥किञ्जल्कः पद्मरेणौ स्यात्केसरेऽपि च कथ्यते ।अन्धेऽप्यनेडमूकः स्यात्कीचको दैत्यवंशयोः ॥कुलिकः स्यात्कुलश्रेष्ठेऽप्यंशभागौ तु वण्टकः ।कूर्चिका क्षीरविकृतौ कर्पर्यां दार्विकापि च ॥भूतिका चापि भूनिम्बे पुष्पकं कुसुमाञ्जने ।पुष्पकं तु रथे वृक्षे चातको हरिणे खगे ॥कुञ्चुकी वारवाणेऽहावुत्सुको द्वेषगर्वयोः ।स्यान्मृगाङ्कः कालकण्ठे सितकैरवचन्द्रयोः ॥प्रतीकोऽवयवेऽपि स्यात्प्रतिकूलेऽपि चार्थवत् ।गुलिको मन्दतनये रसबद्धास्त्रदेशयोः ॥दिङ्नागे चाथ गणको ज्योतिषज्ञलिपिज्ञयोः ।गणिका वृक्षभेदे स्यात्स्त्रियां वारस्त्रियामपि ॥कटुतुम्ब्यां शुभ्रवेणाविक्ष्वाकुर्नृपतौ स्मृतः ।
2.3.1 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)