कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

गान्तवर्गः · द्व्यक्षरगान्ताः

इत्येकाक्षरगान्ताः ।

भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ।क्लीबे स्त्रीयोनौ धर्मेच्छातपःसंपत्सु पुंस्ययम् ॥ज्ञानवैराग्ययोः कान्त्यां मोक्षे चाप्यथ पन्नगे ।नगा अगाः पर्वतेऽर्के पादपे स्यान्मृगो गजे ॥कुरङ्गपशुऋक्षेषु स्त्री याच्ञा तस्य योषितोः (?) ।भोगः सुखे स्त्र्यादिरतौ भुजंगफणकाययोः ॥कौटिल्ये पालने राज्ये भोग्ये च द्रविणेऽपि च ।निर्वेशे पण्यनारीणामुत्साहाभ्यवहारयोः ॥प्रबन्धे रूपकार्थे चार्धलेशे भोज(भञ्ज?)नेऽपि च ।चतुर्थांशेऽथ सर्वार्थप्राप्तौ क्षेमार्थसिद्धयोः ।योगः संनहनोपायध्यानसंगतियुक्तिषु ॥योगसूत्रे द्रव्यलाभे विष्कम्भादौ च भेषजे ।वपुःस्थैर्ये प्रयोगे कार्मणे विस्रब्धघातिनि ॥इङ्गं स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि ।भङ्गस्तरङ्गे रुग्भेदे भेदे जयविपर्यये ॥रागभेदे च खड्गे च भङ्गा तु शणसंज्ञिके ।भङ्गी प्रकारे तुङ्गस्तु शैलपुंनागयोस्त्रिषु ॥उन्नतेऽप्यथ गोनाभे भेके हिंसार्थके त्रिषु ।अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके ॥देशभेदे तु पुंसि स्यादङ्गेत्यामन्त्रणेऽव्ययम् ।लिङ्गं संगमने चिह्ने माने शेफेभ(श)मूर्तिषु ॥सांख्योक्तप्रकृतौ हेम्नि शिवमूर्तौ प्रचक्षते ।शृङ्गं विषाणे सानौ च प्रभुत्वे कूर्चशीर्षयोः ॥क्रीडाम्बुयन्त्रे शिखरे स्यादुत्कर्षप्रधानयोः ।शृङ्गी विषायां वृषभे विषभोज्ये वटेऽपि च ॥गजमीनसुवर्णेषु कुरङ्गेऽपि च कथ्यते ।रङ्गो रणे खले रागे नृत्तादौ च त्रपुण्यपि ॥जले रथे क्षेत्रभेदेऽप्यथ भृङ्गं तु कुन्तले ।अळिधूम्याटषिद्गेषु पुंसि वर्गस्तु संततौ ॥देशभेदे नपुंसि स्यात्सीसभेदकरङ्गयोः ।भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि ॥रागोऽनुरागे मात्सर्ये लाक्षादौ रक्तिमत्विषोः ।[ सारङ्गादौ च माधुर्ये प्रणयेऽनुत्तरेच्छयोः । ]गान्धारादौ रञ्जने च वल्गुश्छागमनोज्ञयोः ।भाषितेऽपि च भोगी स्याद्राजपन्नगयोरपि ॥मार्गो मृगमदे मासप्रभेदेऽन्वेषणेऽध्वनि ।बौद्धौक्तज्ञानभेदे च गुदसौम्यर्क्षयोरपि ॥नागः सर्पे गजे वृक्षे मृगे मुस्तकमेघयोः ।नागकेसरपुंनागक्रूराचारानिलेषु च ॥श्रेष्ठे च नागदन्तेऽक्षसीसे रङ्गे रतान्तरे ।खगः शरार्कविहगामरमेघेन्दुवायुषु ॥राजहंसे ग्रहेऽपि स्यान्मृगभूदेशयोर्लगुः ।वेगः प्रवाहजवयोर्महाकालफलेऽपि च ॥जले स्वर्गे प्रियेऽपि स्याद्विण्मूत्रादिविनिर्गमे ।पूगः स्यात्क्रमुके वृन्दे नृपाधिकृतरेखयोः ॥सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ।उत्साहत्यागयोश्चाथ त्यागो वर्जनदानयोः ॥यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ।अपि हस्तचतुष्के स्यादौषधे वर्षपञ्चके ॥खड्गो मृगान्तरे हेत्यां गण्डकेऽथ शिवे रुचाम्(चि?) ।लोके वागग्निलिपिषु शिल्पौ भर्गः प्रव(च)क्ष्यते ॥दुर्गा गौर्यां कालिकायां दुर्गं तु नरके पुरे ।शैलादिदुर्गमस्थाने त्रिषु त्वेष दुरासदे ॥
4.2.1 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नौ (wrong syllable)