All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
वान्तवर्गः · एकाक्षरवान्ताः
इति चतुरक्षरलान्ताः ।
वः पुमान्सान्त्वने वायौ संयमे वरुणे स्मरे ।वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये ॥विश्चक्षुषि व्योम्नि वाते परमात्मनि पक्षिणि ।विट् पुरीषे जने वैश्ये क्रमात्पुंसि द्वयोः स्त्रियाम् ॥स्वोऽस्त्री धने पुमाञ्ज्ञातौ त्रिष्वात्मीये स्वमात्मनि ।स्वः स्वर्गे परलोके च त्विट् कान्तिज्वालयोः स्त्रियाम् ॥वल्के लवङ्कवल्के त्वग्द्वार्द्वारोपाययोः स्त्रियाम् ।रमायां देवपूजायां शक्तौ शोभावरेण्ययोः ॥
30.1.1 · p. 82
अनुष्टुप्