All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
यान्तवर्गः · एकाक्षरयान्ताः
इति चतुरक्षरमान्ताः ।
इति राघवीयनानार्थमञ्जर्यां पवर्गान्तवर्गाः परिसमाप्ताः ।
यस्त्यागे निलये वायौ यामे दातरि यातरि ।या स्त्रियां यानमञ्जर्योः शोभालक्ष्म्योश्च निर्मितौ ॥त्रिषु स्यात्सर्वनामाख्ये व्यये हेतावथो स्त्रियाम् ।ख्या ख्यातौ च प्रकथने ज्या मौर्वीमातृभूमिषु ॥द्यौर्ना दिव्यह्नि वह्नौ च स्वर्व्योम्नोः पुंसि च स्त्रियाम् ।
27.1.1 · p. 62
अनुष्टुप्