कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

कान्तवर्गः · चतुरक्षरकान्ताः

इति त्र्यक्षरकान्ताः ।

कलहंसे च कारण्डे चातुरीकः पुमानयम् ।माताङ्गिकः करिशिशौ भवान्यामपि तत्स्त्रियाम् ॥ज्योत्स्निकायां पटोले च घोषे कोशातकी ततः ।सालावृकः कपिकोष्टुश्वानेषु खदिरे सिते ॥श्रीपर्ण्यां सोमवल्कः स्यादथ बुद्धे विनायकः ।गुरौ च गरुडे विघ्नराजेऽप्युत्कलिकः पुमान् ॥स्यात्कल्लोले कुड्मले च वल्लर्युत्कण्ठयोरपि ।लालाटिकः प्रभोर्भावदर्शी कार्याक्षमश्च यः ॥पुण्डरीको व्याघ्रभेदे दिग्गजेक्षुद्रुभेदयोः ।पुंनपुंसि सितच्छत्रे सिताम्भोजेऽपि कीर्तितम् ॥जैवातृकः कृशे चन्द्रे भैषज्यायुष्मतोरपि ।सौगन्धिकं तु चाक्षुष्ये(?) कल्हारेऽपि प्रचक्ष्यते ॥नर्मवाक्परिहासे च स्त्रियामेव मधूलिका ।
2.4.1 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 पि (wrong syllable)