All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
तान्तवर्गः · द्व्यक्षरतान्ताः
इत्येकाक्षरतान्ताः ।
रीतिः प्रचारे स्यन्दे च प्रकारे लोहकीटके ।आरकूटे प्रवासे च डिम्बे गमनदुःखयोः ॥अतिवृष्टावनावृष्टौ शलभे मूषिके शुके ।अत्यासन्ने च राजानश्चाथो जातिस्तु जन्मनि ॥छन्दोलंकारसामान्यधात्रीगोत्रेषु कीर्तितः ।परार्ध्यजन्मनि श्रेष्ठे मालत्यां स्यादथो रतिः ॥स्मरप्रियायामिच्छायां सुरते क्रीडरागयोः ।जातः स्यादुन्नते वृद्धेऽप्युच्छ्रितोन्नद्धयोरपि ॥रीतिः स्वभावे स्रवणे दृति(?)प्रकृतिसौख्ययोः ।धृतिर्योगे धारणे च प्रवृद्धौ प्रीतिसौख्ययोः ॥प्रज्ञानाध्वरधैर्येषु पुष्टे स्याच्छन्दसि स्त्रियाम् ।भूतिर्भस्मनि मातङ्गशृङ्गारे जन्मसंपदोः ॥सत्तायामपि वृत्तस्तु वर्तुलेऽतिदृढे पुमान् ।स्वरूपे चरिते पद्ये जीवने वर्तनेऽपि च ॥स्याद्वृत्तिर्नाट्येन्द्रजाले कौशिक्यादिकृषीषु च ।विचारे स्तम्भने ज्ञाने स्नेहे वर्तनजीवने ॥लो(ला?)भे कवीनां रचनाभेदे क्लीबे ज्ञाते विचारिते ।वित्तं ख्याते धने लब्धे क्लीबे ज्ञाते विचारिते ।ऋतिर्गतौ जुगुप्सायां स्पर्धामङ्गलसाधके ॥गतिर्मातृपणायां(?)च ज्ञाने यात्राभ्युपाययोः ।धूर्तः स्यात्खण्डलवणे शठधुर्धूरयोरपि ॥दन्त उन्नतपाषाणे सानौ दंष्ट्रनिकुञ्जयोः ।दन्ती तु वारणे क्रोडे श्वाने व्याघ्रे मृगाधिपे ॥ओषधीनागहेरम्बसोमेष्वप्यथ गौरवे ।प्रस्तावादौ च सेवायां भक्तिः स्याद्भागपङ्कयोः ॥अन्तस्तु भागेऽवसिते रचनायां च तत्परे ।मृतौ निषेवणे रम्ये समाप्तावग्रमध्ययोः ॥स्वरूपे च समीपे च पुंलिङ्गेऽपि प्रकीर्तितः ।हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥लिप्तं विषाक्ते भुक्ते च वाच्यवत्स्याद्विलेपिते ।भ्रान्तिर्भ्रमणमिथ्यानवस्थितास्वथ ब्रह्मणि ॥मन्तुर्ज्ञाने मनुष्यापराधयोः स्यात्ततोऽव्ययम् ।बतामन्त्रणसंतोषखेदानुक्रोशविस्मये ॥हरिद्वर्णविशेषेऽश्वे दिशि तृणदिनेशयोः ।तिक्तो रसे मदे गन्धे रोहिण्यां च कषायके ॥सेतुः स्थलविशेषे स्याज्जलबन्धेऽपि पुंस्ययम् ।हेतिर्ज्वालांशुखड्गेषु तुरङ्गे हेतु चास्त्रियाम् ॥यावत्तावत्परिच्छेदे स्यात्साकल्यनिपातयोः ।केतुर्ध्वजे द्युतौ श्रेष्ठे ग्रहोत्पाताग्निलक्ष्मसु ॥वार्तं फल्गुन्यरोगे तु स्त्री कृष्यां द्यूतदन्तयोः ।वार्ता वृत्तिजनश्रुत्योत्रिष्वप्सु च घृतामृते ॥पत्तिः पदातौ पुंसि स्यात्सैन्यभेदे गतौ स्त्रियाम् ।पङ्क्तिश्छन्दसि वीथ्यां च दशकेऽपि प्रचक्ष्यते ॥स्यात्प्रभावे प्रकरणे धारणे प्रियसौख्ययोः ।श्रुतिः श्रोत्रे श्रुते वेदे वार्तायां श्रौतकर्मणि ॥श्रुतं शास्त्रावधृतयोः स्मृतिर्ज्ञानपुराणयोः ।हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि ॥व्यक्तः प्राज्ञेऽपि स्पष्टार्थे प्रपञ्चे विशदे पुमान् ।व्यक्तिः स्वरे च बीजे च श्रेष्ठे मूर्तौ दृढेऽपि च ॥यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ।पतौ पोतो यानपात्रे शिशौ चापि पुमान्भवेत् ॥मृते प्राण्यन्तरे प्रेतः पार्थिवे तनये सुतः ।भूभृद्राजनि शैले स्यादनन्ते कमठेऽपि च ॥ऋतुः स्त्रीकुसुमे हेमन्तादिष्वप्यथ पारदे ।सूतः स्यात्त्वष्टृसारथ्योर्वन्दिसुष्ठूतयोरपि ॥ब्राह्मण्यां क्षत्रियाज्जाते क्षत्ता स्यात्सारथावपि ।क्षत्रियायां शूद्रजेऽथ शक्तिः प्रभ्वादिषु स्मृतम् ॥कासूसामर्थ्ययोश्चाथ मूर्तिः काठिन्यकाययोः ।सातिर्दानेऽवसाने स्यादार्तिश्चापाग्रपीडयोः ॥धातुर्वागादिशब्दादिगैरिकादिबकादिषु ।श्लेष्मादिरसरक्तादिभूवादिकनकादिषु ॥महाभूतादि त(स?)द्भावे योनौ च स्यात्पुमानयम् ।उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे ॥क्षितिर्भूम्यां गृहे नाशे द्वयोः स्याद्गुप्ति रक्षणे ।शौर्ये दीर्णे च भूगर्ते युगपर्याप्तयोः कृतम् ॥फले क्रियायां विहिते हते वाच्यवदिष्यते ।भूतं क्ष्मादावृते युक्ते प्राण्यतीते समे त्रिषु ॥पुंसि देवलके प्राप्ते कल्पिते गुह्यकेऽपि च ।न्यायोपमानयोस्तृप्तौ महत्पृथुलपूजयोः ॥राज्ये चातः शुक्लवर्णे श्वेतं रजतनागयोः ।द्वीपाद्रिकुष्ठकुम्भीषु पुंलिङ्गे स्याद्वराटके ॥कपर्दिकायां स्त्रीलिङ्गे स्याज्जगद्विष्टपे पुमान् ।इङ्गे वायौ ना जङ्गमे मृगषण्डेऽप्ययं त्रिषु ॥रक्तं नील्यादिरागे स्यादसृक्कुङ्कुमयोरपि ।भृत्ये वर्णे त्रिषु सितः शुक्रे श्वेतेऽर्जुने पुमान् ॥बद्धेऽपि स्त्री शर्करायां कर्पूरे कथ्यते त्रिषु ।शुक्तस्तु परुषे चाम्ले शुक्तिः कज्जलभाजने ॥मुक्तासंभवपात्रे स्यात्कीर्तिर्यशसि वार्तयोः(?)प्रदेशे कर्दमेऽपि स्याच्छिती धवलमेचकौ ।सत्ये साधौ विद्यामाने प्रशस्तेऽभ्यर्हिते च सत् ॥भवान्यां तु सती स्त्री स्यान्नक्षत्रे तु नपुंसकम् ।भास्वान्कान्तिमति सूर्ये वीरुत्स्त्री गुल्मवातयोः ॥प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।इति हेतुप्रकरणप्रकारादिसमाप्तिषु ॥स्वस्त्याशीःक्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ।सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः ॥प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ।पुनः सदार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥कुतस्तु निह्नवे प्र पञ्चम्यर्थेषु साधु तत् ।अलिङ्गं प्रतिशब्दादौ नित्यं सूरिभिरीरितम् ॥
17.2.1 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 थ (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 2 शि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)nearly अनुष्टुप्