All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
खान्तवर्गः · त्र्यक्षरकान्ताः
इति व्द्यक्षरखान्ताः ।
सुमुखस्तार्क्ष्यतनये फणिभेदे च पण्डिते ।मनोज्ञवदने विघ्नराजेऽपि स्याच्च दुर्मुखः ॥नागराजे च मकरे तुरंगे च प्लवंगमे ।विशिखस्तोमरे बाणे परिव्राज्यग्निसूर्ययोः ॥स्त्री रथ्या शारिकायां च खनित्रे पुंनपुंसके ।गोमुखं कुटिलाकारे वाद्याभाण्डे विलेपने ॥मयूखस्त्विट्करज्वालास्वपि स्कन्देऽपि षण्मुखः ।
3.3.1 · p. 12
अनुष्टुप्