All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
भान्तवर्गः · त्र्यक्षरभान्ताः
इति व्द्यक्षरभान्ताः ।
कौस्तुभः स्याद्देवमणौ कण्ठावर्तेऽपि वाजिनाम् ।आलम्भमवसाने च कलभः करिपोतके ॥अङ्गलेपनवस्तूनां विशेषेऽपि पुमान्भवेत् ।सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः ॥गन्धोपले कामधेनौ सल्लकीमातृभेदयोः ।सुगन्धे च मनोज्ञे च विद्वांसे घ्राणतर्पणे ॥विष्कम्भो योगभेदे स्यात्संरम्भः संभ्रमे क्रुधि ।ककुभस्त्विन्द्रवृक्षे स्याद्दिक्षु पक्षिण्यपि द्वयोः ॥आरम्भस्तु त्वरायां च दर्पे चोद्यमने वधे ।शरभः शलभे चाष्टपादे वनमृगान्तरे ॥वल्लभो दयितेऽध्यक्षे पतौ सर्वकलावति ।अतिप्रीतेऽतिसौन्दर्ये कुलीनेऽश्वे मनोहरे ॥प्रधानेऽल्पे च वीरेऽथ प्रणये चापि हिंसने ।विस्रम्भः केकि(लि?)कलहे विश्वासे च प्रकीर्तितः ॥दुन्दुभिर्दैत्यभेदे च वाद्ये वर्षे त्रिकद्वये ।कुसुम्भं सोमनि क्लीबे स्यान्महारजने घटे ॥संनिभं तु समीपे च पुंसि वा साम्यवस्तुनि ।
25.3.1 · p. 57
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्दे (wrong syllable)