All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
थान्तवर्गः · द्व्यक्षरथान्ताः
इत्येकाक्षरथान्ताः ।
अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।मोक्षकारणयोश्चास्था स्थानालम्बनयत्नयोः ॥अपेक्षायां च संस्था तु स्थितौ नाशे चरेऽपि च ।मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ॥कथमादौ तथाप्यन्ते यत्ने गौरवबाढयोः ।पथ्या स्त्री स्याद्धरीतक्यां पुंनपुंसकयोर्हिते ॥तीर्थं पात्रे दर्शने च पुण्यक्षेत्रे च पावने ।योनौ जलावतारे च स्त्रीरजस्यध्वरेऽपि च ॥अष्टादशेऽमात्यसेनापतिपौरोहितेषु च ।निपानागमयोर्मूले ऋषिजुष्टजले गुरौ ॥वीथिः पङ्क्तावश्वगतौ नाट्यभेदे गृहाङ्कणे ।मार्गे प्रस्थस्तु सानौ स्यान्मानभेदे नपुंसके ॥
18.2.1 · p. 40
अनुष्टुप्