कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

टान्तवर्गः · एकाक्षरटान्ताः

इति त्र्यक्षरज्ञान्तौ ।

चतुरक्षरमप्रसिद्धम् ।

इति राघवीयनानार्थमञ्जर्यां चवर्गान्तवर्गाः परिसमाप्ताः ।

टः पुमान्करटे धूमे चापेऽर्ककिरणे ध्वनौ ।कवाटावर्तयोः सूनौ भूव्यावृत्त्योस्तु टा स्त्रियाम् ॥
12.1.1 · p. 23
अनुष्टुप्

इत्येकाक्षरटान्ताः ।

देवशिल्पिनि सूर्ये च त्वष्टा दिष्टं तु दैवते ।दिष्टः साक्षात्स्थिते काले मुष्टिर्दैत्ये प्रमाणजे ॥अट्टं भित्तिचतुष्के स्यात्क्षामेऽत्यर्थे गृहान्तरे ।यष्टिर्दामनि दण्डे स्याद्व्याप्यवत्फलकेऽपि च ॥जटा सटा लग्नकचे लतामूलेऽपि केसरे ।कोटिरग्राश्रचापाग्रसंख्योत्कर्षाश्रयेषु च ॥व्युष्टिः फले समृद्धौ च स्तोत्रे दृष्टिस्तु दर्शने ।ज्ञानेऽक्ष्णि सृष्टं क्लीबे स्यात्प्राज्यनिश्चितयोरपि ॥त्रिषु स्यान्निर्मिते मुक्ते कष्टं गहनकृच्छ्रयोः ।दक्षामन्दागदेषु स्यात्पटुः कूटं तु न स्त्रियाम् ॥मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ।अयोघने शैलशृङ्गे सीराङ्गेऽप्यथ शोभने ॥अभावक्षेमयो रिष्टमिष्टिर्यागेच्छयोरपि ।इष्टं संस्कारयोगे च यागे पूज्यतमेऽपि च ॥आशंसिते प्रियतमे वाटो वृतौ स्थलाध्वनोः ।गृहारामप्रदेशे चावटे रोधसि पुंस्ययम् ॥कुटी तु स्यात्कुम्भदास्यामल्पवेश्मनि पुंसि च ।पट्टः पेषणपाषाणे व्रणादीनां च बन्धने ॥चतुष्पथे च राजादिशासनान्तरपीठयोः ।पट्टी ललाटभूषायां पट्टी लाक्षाप्रसाधने ॥विटोऽद्रौ लवणे षिद्गे मूषिके खदिरेऽपि च ।कूटो यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे ॥मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः ।दिवाकरे तत्किरणे पुरद्वारे मतङ्गजे ॥त्रुटी लेशे संशये च कालाल्पैलाप्रमाणयोः ।कटोऽतिरेकशवयोः क्रियाकारिश्मशानयोः ॥गजगण्डे शवरथे शय्यायां च स्त्रियां मतः ।किलिञ्जे समये पुंसि कटिः श्रोण्यां कटी स्त्रियाम् ॥वर्षे चावरणे क्लीबे कटुर्मत्सरतीक्ष्णयोः ।मधुरादिरसे कट्वकार्याकार्य(?)प्रियेषु च ॥क्षवे प्रियङ्गौ गन्धे स्यात्त्रिषु स्त्रीलिङ्गकेऽप्ययम् ।रोहिण्यां पूतनायां च रटस्तु गतिशब्दयोः ॥घटः कुम्भे राशिभेदे मणौ ह्रादिनि(?)वृन्दयोः ।स्त्रियां तु घण्टालम्बिन्योश्चटुश्चाटुः प्रियंवदे ॥छटा समूहे कान्तौ च वेष्टने च वटस्तरौ ।पिष्टादिना त्वमाङ्गल्यधामकुड्याङ्कणेषु च ॥
12.1.2 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)