कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

ठान्तवर्गः · द्व्यक्षरठान्ताः

इत्येकाक्षरठान्ताः ।

ज्येष्ठोऽग्रजे स्त्रियां ज्येष्ठा देव्यां नक्षत्रशस्तयोः ।काष्ठा दिक्कालहारिद्रस्थित्युत्कर्षेषु तु स्त्रियाम् ॥दारौ क्लीबमथो निष्ठा निष्पत्तौ यज्ञकर्मणि ।नाशान्तयोश्च निष्कर्षे कोष्ठोऽन्तर्जठरेऽपि च ॥कुसूलेऽन्तर्गृहे कण्ठोऽन्तिके शब्दे गलेऽपि च ।कामवृक्षे च मूर्खे च गूढविप्रियकारिणि ॥अलसे धुस्तुरे धूर्ते मध्यस्थपुरुषे शठः ।मठश्छात्रादिनिलये बलात्कारे हठः पुमान् ॥
13.2.1 · p. 25
अनुष्टुप्