All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
सान्तवर्गः · द्व्येकाक्षरसान्ताः
इत्येकाक्षरसान्ताः ।
हंसः सूर्ये मरालेऽश्वे यतौ च परमात्मनि ।श्रेष्ठे निर्लोभनृपतौ शरीरमरुदन्तरे ॥मत्सरे मन्त्रभेदे च विष्णौ राजादिपूर्वके ।हिंसा चौर्ये ताडने स्यादन्योपद्रवबन्धयोः ॥वेधाश्चतुर्मुखे विष्णौ पण्डितेऽपि प्रचक्ष्यते ।स्त्री त्वाशीः सर्पदंष्ट्रे हिताशंसायामनुग्रहे ॥हासो हास्यरसे शीघ्रगमनानन्दयोरपि ।वसुर्वृद्धौ धने रत्नेऽनले मधुरहट्टयोः ॥योक्त्रे रश्मौ धनाध्यक्षे देवभेदे च वाच्यवत् ।ज्योतिः प्रकाशनक्षत्रदृक्सूर्याग्निशिखासु च ॥पुष्पार्थाध्वरपाषाणवेदाङ्गेषु विधावपि ।धनुः प्रियालवृक्षे च राशिभेदे शरासने ॥धनुर्धरे च शूरे च छन्दः पद्याभिलाषयोः ।वेदे वाक्ये वृत्तभेदे उत्सवेऽपि नपुंसकम् ॥रसो वीर्ये गुणे रागे शृङ्गारादौ द्रवे विषे ।जलेऽङ्गधातौ गन्धे च तिक्तादौ पारदे धने ॥आस्वादनेऽथ स्रोतः स्यादिन्द्रिये निम्नगारये ।अर्चिर्मयूखशिखयोस्तमस्तिमिरवेलयोः ॥गणे राहौ च मायायां ज्ञानेऽपि परिकीर्त्यते ।रजस्तु कौसुमे रेणौ गुणधूलीन्द्रियेषु च ॥स्त्रीणामृतौ च न्यासस्तु निक्षेपार्पणसद्मसु ।दाने च मन्त्रभेदेऽथ भाषितौषधयोर्वचः ॥तेजो बीजे प्रतापे च प्रभायां परमात्मनि ।कोशदण्डे मयूखेऽग्नावंशे सूर्ये बलेऽपि च ॥वत्सस्तर्णकपुत्रादौ वर्षे च कुटजे पुमान् ।विष्णोर्वक्षसि वत्सं स्यात्तरश्च बलरहंसोः ॥तपश्चान्द्रायणादौ स्याद्धर्मे लोके हुताशने ।माघे ग्रीष्मे धर्मराजे क्लेशे च शिशिरेऽपि च ॥वयः पक्षिणि बाल्यादौ सामर्थ्येऽवयवे नपुम् ।रेतः स्यादिन्द्रिये स्वर्णे निर्यासे स्वादनेऽमृते ॥शब्देऽथ ओजो दीप्तौ च बले तेजसि पुंस्ययम् ।अवष्टम्भे च धातूनां विषमर्क्षेऽपि कथ्यते ॥प्रसूर्जनन्यां बडबायां लतायां स्त्रियां मता ।वर्चः पुरीषे दीप्तौ च रूपे विद्वांस्तु पण्डिते ॥प्राप्ते चात्मविदि स्याच्च महश्चोत्सवतेजसोः ।सहो बले सहा मार्गे हेमन्तज्योतिषोः पुमान् ॥हासयुक्ते चाथ नभाः श्रवणावपि कथ्यते ।नभो व्योम्नि नपुं मेघे घ्राणे पुंसि पतद्ग्रहे ॥मृणालसूत्रे वर्षासु स्यादोकस्त्वाश्रये गृहे ।पिके पयो जले क्षीरे ज्यायान्वृद्धप्रशस्ययोः ॥
33.2.1 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)