All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
चान्तवर्गः · द्व्यक्षरचान्ताः
इत्येकाक्षरचान्ताः ।
शुचिः पावकचन्द्रार्कशुक्रशृङ्गारमन्त्रिषु ।षण्डशुद्धहरश्वेतग्रीष्मानुपहतेषु च ॥स्थिताद्युपधमासेषु(?) त्रिष्वर्चिः शोचिषि स्मृतम् ।ज्वालामरीचयोः काचाः शिक्यमृद्भेददृग्रुजः ॥रुचिः स्पृहायां कान्तौ स्यादभिषङ्गमयूखयोः ।अर्चा पूजाप्रतिमयोश्चर्चा स्थासकचिन्तयोः ॥पुं स्याज्ज्वालाभासविट्सु शोचिः शुद्धशुगंशुषु ।सूचिः सुरतभेदेऽभिनये सीवनधावने (?) ॥केतकीमुकुलाग्रे च भेदके दुर्जनेऽपि च ।क्रौञ्चो द्वीपे खगे शैले काञ्ची मेखलपट्टयोः ॥पिचुः सुरान्तरे तूले कर्षे च वृषभाश्वयोः ।प्रपन्नगुदकुष्ठेषु भैरवेऽप्यथ कुन्तले ॥वीचिः स्वल्पेऽवकाशे च तरङ्गे नरके सुखे ।वीथ्यां कचः शुष्कव्रणे बन्धे केशे व्रणेऽपि च ॥कुष्ठे गुरोः सुते दन्तावलयोषिति तु स्त्रियाम् ।नीचः प्लवेऽधमे खर्वे मोचा शल्मलिरम्भयोः ॥मोचः शोभाञ्जने मोक्षे कूर्चं कैतवपीतयोः ।भ्रुवोर्मध्ये कुथे श्मश्रौ कुशग्रन्थिविशेषणे ॥चञ्चुस्त्रोटौ च वेदान्ते मञ्चः क(ख?)ट्वेऽपि कथ्यते ।
7.2.1 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष्क (wrong syllable)