कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

पान्तवर्गः · द्व्यक्षरपान्ताः

इत्येकाक्षरपान्ताः ।

रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ सितादिषु ।रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ सितादिषु ॥सौन्दर्ये च स्वभावे च मृगे स्थाने च नाविके ।आकारवपुषोश्चाथ गोपो गोष्ठपतौ शिवे ॥ग्रामौघकृतकीटेषु(?) वल्लभाब्धीन्दुराजसु ।गोपी गोपालमहिलाशारिबारक्षिकासु च ॥कल्पः स्यात्प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ ।क्षेपो विलम्बे निन्दायां बाष्पो नेत्रजलोष्मणोः ॥नीपः कदम्बे निम्बायां पुलके च हरिप्रिये ।अन्ववायप्रभेदे स्यादपिः प्रश्नविरोधयोः ॥संभावनायां गर्हायां समुच्चयवितर्कयोः ।तल्पं शव्याट्टदारेषु पापः कुत्सेषदर्थयोः ॥
22.2.1 · p. 54
अनुष्टुप्