कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

दान्तवर्गः · द्व्यक्षरदान्ताः

इत्येकाक्षरदान्ताः ।

वादी मङ्गलवाद्ये संख्यायां वैतालिके ध्वनौ ।नन्दी वन्दी द्वौ वृषभे वंशजे स्तुतिपाठके ॥कन्दस्तु सूरणे सस्ये मूले जलधरेऽपि च ।छन्दोऽभिप्रायवशयोर्हृदाख्याचित्तवित्तयोः ॥उक्तादौ वृत्तशास्त्रे स्याद्वेदे च परिकीर्तितम् ।स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु ॥प्रतिज्ञायां च संकेते तोषणाचारयोरपि ।भेदो द्वैते विशेषे च उपजाते विदारणे ॥मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः ।कृष्णवस्तुनि मद्येऽपि पादः प्रत्यन्तपर्वते ॥तुरीयांशे वृक्षमूले चांशौ चरणभ्रंशयोः ।पूज्ये चाथ पदं शब्दे व्यवसायोपदेशयोः ॥वाक्ये पद्ये पदन्यासे स्थाने स्याद्वाच्यलिङ्गकः ।त्राणे व्यवसिते चिह्ने वस्तुन्यथ गुणाधिके ॥संपद्भूतौ हारभेदे वैभवे च गदोऽस्त्रियाम् ।आयुधे धनदे रोगे पुंसि कृष्णानुजेऽपि च ॥स्वेदस्तु घर्मसलिले अब्दो मेघे च दर्पणे ।प्रभवादौ पर्वते च शादो जम्बालशष्पयोः ॥सूदस्तु व्यञ्जने पुंसि हिंसासंहारयोः स्त्रियाम् ।ककुच्छ्रेष्ठे वृषस्याङ्गे राजचिह्नेऽपि कीर्तितम् ॥स्वाद्विष्टे मधुरे हृद्ये मृदू चातीक्ष्णकोमलौ ।मन्दः शनौ तामसे च कुण्ठेभस्वैरकारिणोः ॥निर्भाग्ये चापटौ पुंसि चाल्पपूरुषमूढयोः ।
19.2.1 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ण (wrong syllable)