All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
दान्तवर्गः · त्र्यक्षरदान्ताः
इति व्द्यक्षरदान्ताः ।
दायादौ बन्धुतनयौ तमोनुच्चन्द्रसूर्ययोः ।वैश्वानरे च निर्वादो जनवादे च निश्चिते ॥वादाभावे चाप्ययं स्यादामोदो हर्षगन्धयोः ।गोविन्दः स्यात्सुरगुरौ गोष्ठाध्यक्षमुकुन्दयोः ॥गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् ।शारदः सप्तपर्णे स्याच्छरत्कालोद्भवेऽपि च ॥लाङ्गल्यां शारदी नव्ये वाण्यां कान्तौ च शारदा ।प्रसादोऽनुग्रहे कार्ये प्राणस्वास्थ्यप्रशस्तिषु ॥नैर्मल्यहर्षयोश्चाथ आक्रन्दो दारुणे रणे ।आरावे रोदने त्रातर्यङ्गदो वालिनन्दने ॥नपुंसि बाहुवलये नर्मदः परिहासके ।नदीभेदे विषादस्तु दुःखे गरलदायके ॥विषादी शंकरे दुःखयुक्ते गरलभोजने ।कुमुदः प्लवगाधीशे कैरवेऽपि पुमान्भवेत् ॥विनोदः शास्त्रतात्पर्ये परिहासे च धन्वनि ।निषादस्तु स्वरे व्याधे त्र्यक्षरं चापि कीर्तितम् ॥
19.3.1 · p. 43
अनुष्टुप्