कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

षान्तवर्गः · द्व्यक्षरषान्ताः

इत्येकाक्षरषान्ताः ।

वृषो धर्मबलीवर्दश्रेष्ठमूषिकराशिषु ।शुक्रले च पुमान्स्त्री तु कपिकच्छ्वाटरूषयोः ॥सुरसंघेऽक्ष्णि जिष्णौ च तुरंगे जलजेऽपि च ।शृङ्ग्यामपि वृषा स्त्री स्याद्व्रतिनामासनं वृषी ॥कर्षूर्वार्ताकरीषाग्निलेखनेषु च खातने ।कुल्यायां तु कर्षू चाथ कर्षस्तु कर्षणे फले ॥वर्षस्तु वृष्टावब्दे स्याल्लोके धात्र्यंशमेघयोः ।क्लैब्यजम्बूद्वीपयोश्च विषं गरलवारिणोः ॥उषानिरुद्धपत्न्यां च कालभेदेऽपि पुंसि वा ।प्रेषः प्रैषः प्रेषणे स्यान्मर्दनोन्मानमानयोः ॥श्लेषः स्यादुभयार्थे च अलाताङ्गारयोः पुमान् ।कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः ॥दोषः स्याद्दूषणे पापे दोषा रात्रौ भुजेऽपि च ।शेषोऽप्रधानेऽनन्ताख्ये त्रिषु स्यादवशेषिते ॥शेषा प्रसादनिर्माल्याक्षतादानेषु तु स्त्रियाम् ।तूष्णीमर्थे सुखे जोषं पुण्यकालाब्दयोर्विषुः ॥
32.2.1 · p. 87
अनुष्टुप्metre not read in every line