All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
टान्तवर्गः · त्र्यक्षरटान्ताः
इति व्द्यक्षरटान्ताः ।
धूर्जटिर्धूर्तचिह्ने स्याच्छंकरे चाथ संपुटः ।समुद्गके कुरबके चारिष्टं सूतिकागृहे ॥अशुभे निम्बवृक्षे च शुभे तक्राङ्कयोः पुमान् ।काके च फेनिले नीचे व्यसनेऽनर्थलम्बयोः ॥भाग्यहीनेऽथ करटः कुसुम्भगजगण्डयोः ।काके च वाद्यभेदे च श्राद्धे चैकादशेऽपि च ॥सृगाले निन्द्यजीवे च कपटः कैतवेऽपि च ।
12.2.1 · p. 24
अनुष्टुप्