कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

यान्तवर्गः · द्व्यक्षरयान्ताः

इत्येकाक्षरयान्ताः ।

संध्या तु कालभेदे स्याव्द्यवहारात्मनोरपि ।काव्यासुरस्त्रियां स्त्री स्यात्पुंसि रामायणादिषु ॥स्मयो बले प्रवत्से च दर्पशौण्डीर्ययोरपि ।मृत्युः किंपाकमरणलक्षणेषु यमेऽपि च ॥नयो नीत्यां षट्पवर्णे(?) वेध्यं लक्ष्येऽपि कीर्तितम् ।चित्यं चैत्यं चिताकम्ब्वोरुद्देशे द्रौ सुरालये ॥संख्या युद्धे हस्तिबिन्द्वोर्निधिव्यूहान्तरादिषु ।गणनायां वयो यूनि कथ्योद्गमकथार्हयोः ॥कक्ष्या वैकक्ष्यके काञ्च्यां रज्जौ मध्येभबन्धने ।हर्म्यादेश्च प्रकोष्ठे च स्त्रियां बृहतिकच्छयोः ॥वरत्रायां शयस्तु स्याच्छयालौ सुखहस्तयोः ।भुजंगमेऽपि शय्यायां दायो वित्ते च यौतके ॥भाषणे सोल्लुण्ठने च विभक्तव्यपितुर्धने ।जनितव्ये रणे क्लीबेऽपवादजनजल्पयोः ॥अस्त्री वरवधूज्ञातिप्रियतुल्यहितेषु च ।जन्यस्त्रिषु जने साधौ जनितोत्पादनीययोः ॥जन्या तु मातृसख्यां च मदे हट्टे जनेऽपि च ।लोके जन्तावथो वीर्यं प्रभावे शुक्लतेजसोः ॥सामर्थ्येऽपि च गुह्यं तु योनौ रहसिदम्भयोः ।कूर्मे शैलान्तरारोग्यसोढव्येषु नपुंसकम् ॥पुंसि स्यादङ्गभेदे च कुमार्गेऽस्वैरिपक्षयोः ।स्त्रियां तु शाखानगरे छेकरूषितयोरपि ॥सत्यं तु शपथे तथ्ये साधुसप्तमलोकयोः ।चोद्यं तु चोदनार्हे स्याद्द्भुतेऽपि व तत्त्रिषु ॥पद्यः शूद्रे पुंनपुंसि सृतौ श्लोकेऽपि गद्यते ।भव्यं सत्ये शुभेऽरोगे कर्मरङ्गतरौ स्त्रियाम् ॥शुद्धे करिकणायां च भेद्यवद्योग्यभाविनोः ।छाया स्त्री सूर्यभार्यायां प्रतिबिम्बे अनातपे ॥पालनोत्कोचयोः कान्तिसच्छोभाकाव्यपङ्क्तिषु ।मध्यस्तु मध्यभागेऽल्पेऽवलग्नोपरिदेशयोः ॥न्याय्येऽपि प्रायस्तुल्ये च बाहौ मृत्यौ क्षये मृते ।वयस्यनशने भूम्नि पण्यं विक्रयवस्तुनि ॥अट्टे च व्यभिचारे च पुण्यं धर्ममनोज्ञयोः ।कृत्या क्रियादेवतयोः कुटिले कीर्त्यते त्रिषु ॥सामन्ते परसेनायाः पतौ चापि पुमानयम् ।शल्यं शङ्कौ शरे वंशे योग्याभ्यासार्कयोरपि ॥अयि प्रश्नानुनययोश्चैत्यमायतने पुमान् ।उद्यानपादपे बिम्बे बुघ्न्ये चार्यस्तु बाहुजे ॥मुख्यं भूपालान्त्यमण्योरयः पुंसि गतावपि ।शुभावहे चाभ्युदये तार्क्ष्यश्च गरुडाश्वयोः ॥रथेऽनूरावश्वकर्णे पुंसि स्यान्न रसाञ्जने ।क्षयो रोगे गतौ हिंसागृहहानिषु कथ्यते ॥तिष्यः पुष्ये कलियुगे दीप्त्यामलकयोः स्त्रियाम् ।पूज्यस्तु श्वशुरे मान्ये मन्युर्दैन्ये क्रतौ क्रुघि ॥द्रव्यं भव्ये त्रिषु द्युम्ने क्लीबे जतुनि भेषजे ।गुणाश्रयेऽपि धिष्ण्यं तु शक्तौ भे निलयेऽनले ॥यज्ञे होत्रादिपुरतः स्थिते स्यात्पुंनपुंसकम् ।क्रिया कर्मणि चेष्टायां चिकित्सायां च निष्कृतौ ॥आरम्भोपायशिक्षासु पूजनेऽपि च पुंसि वा ।संप्रधारणसंस्काररचनासु स्त्रियामपि ॥धात्वर्थाख्यातयोर्भाग्यं शुभे चाशुभकर्मणोः ।कल्यो निरामये सज्ये दक्षे साधौ कलासु च ॥प्रभातेऽपि नपुंसि स्यादर्थ्यस्तु विबुधेऽपि च ।आत्मवाननपेतार्थशिलाजतुषु पुंस्ययम् ॥रूप्यः प्रशस्ते रूपेऽपि रजते तन्नपुंसकम् ।सौम्यं तु सुन्दरे सोमदैवते पुंसि वा बुधे ॥दस्युः स्यात्तस्करे पुंसि द्वेषणेऽपि प्रकीर्तितम् ।
27.2.1 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)

इति द्व्यक्षरयान्ताः ।

कुलायः परगेहे स्याल्लुलायो महिषेऽपि च ॥कौर्णेयो राक्षसे वायावीशानानलयोरपि ।तपःस्थिते फाल्गुनिके पुंस्येवाप्युच्छ्रयो नगे ॥उच्छ्रायेऽपि जघन्यस्तु सुरभे नीचकर्मणि ।अधमेऽन्त्ये च लिङ्गे च पुंनपुंसकयोरपि ॥कषायो मधुरे स्निग्धे तिक्तेऽपि सुरभिण्यपि ।अङ्गरागे च निर्यासे लोहिते च विलेपने ॥रञ्जकाश्मकशक्वाथविप्लवेषु च रूषिते ।आश्चर्यहाहागन्धर्वनिगर्वेष्वपि विस्मयः ॥अनयो व्यसने दैवे चाशुभे चापदि स्मृतः ।अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डविनाशयोः ॥अभिख्या कीर्तिमाहात्म्यनामशोभास्वपि स्त्रियाम् ।प्रलयो मृत्युकल्पान्तमूर्छालेषु प्रशस्यते ॥विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च ।गोचरे च प्रबन्धादेर्यस्य ज्ञातस्य तस्य च ॥प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु ।प्रथितत्वे च संनादावधीने ज्ञानशब्दयोः ॥गाङ्गेयः षण्मुखे भीष्मे जातरूपकशेरुणोः ।मुस्तायां पुंनपुंसि स्यान्मङ्गल्यस्तु मसूरके ॥बिल्वेऽश्वत्थे त्रायमाणे दधिकल्याणयोरपि ।मनोज्ञे रोचनायां च प्रियङ्गुशतपुष्पयोः ॥अधःपुष्पे शङ्खपुष्पे शमीशुक्लवचासु च ।हृदयं जीविते वित्ते भावे मनसि वक्षसि ॥पुत्रे मातरि सौभाग्यं सौन्दर्ये शोभनेऽपि च ।संपत्तिज्ञानमाहात्म्यपुण्यमुक्तिषु कथ्यते ॥शरव्यं सायके लक्ष्ये मृगयासाधनेऽन्यवत् ।प्रणयः स्यात्परिचये याच्ञायां सौहृदेऽपि च ॥निष्क्रिया बुद्धिसामर्थ्ये उन्मूले निर्गतेऽपि च ।भुजिष्यः किंकरेऽपि स्याच्छ्वशुर्यौ स्यालदेवरौ ॥पर्जन्यौ रसदब्देन्द्रौ भ्रातृव्यौ भ्रातृजद्विषौ ।स्यादर्यः स्वामिवणिजोः पर्यायोऽवसरे क्रमे ॥निर्वाणे च प्रकारे च समयो नियमे पुमान् ।शपथाचारसिद्धान्तकालसंवित्सु पुंस्ययम् ॥संकेतेऽवसरे चाथ समवाये च संनयः ।पश्चादवस्थायिबले संस्त्यायः संनिवेशने ॥संघातेऽवयवेऽपि स्याद्विशल्या तु महौषधे ।त्रिपुटालाङ्गलीदन्तीगतशल्यामृतासु च ॥वक्तव्यो वचनीयेऽपि गर्ह्येऽधीने नपुंसकम् ।वार्तिके चावदानी तु वाचि वल्ग्ववलग्नयोः ॥
27.2.2 · p. 64
अनुष्टुप्