कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

तान्तवर्गः · चतुरक्षरतान्ताः

इति त्र्यक्षरतान्ताः ।

वेण्यङ्कुरे वंशपोतः स्यान्महाकुलसंभवे ।भगदत्तबृहद्दत्तौ क्षितिपालकनामनी ॥अवधूतोपेक्षिते च कम्पिते चाश्रमान्तरे ।अपक्रान्ते भूचलितः प्रतिपत्तिस्तु गौरवे ॥प्राप्तौ प्रवृत्तौ प्रागल्भ्ये कर्तव्यज्ञान उच्यते ।उन्मीलितं समुत्कीर्णे समग्रोन्मेषयोरपि ॥दिवाकीर्तिस्तु चण्डाले नापितोलूकयोरपि ।सरस्वती नदीभेदे गोवाग्देवतयोर्गिरि ॥स्त्री पूजायामपचितिर्द्वयोश्च स्यात्क्षयार्चयोः ।नदीनगर्योर्नागानां भोगवत्यथ काञ्चने ॥रौप्येऽपि कलधौतं स्यादवगीतं तु गर्हिते ।जन्योपश्लिष्टयोर्वाच्यलिङ्गः कुत्सितकूजिते ॥अत्याहितं महाभीतौ कर्म जीवानपेक्षि च ।अवदातः सिते पीतेऽभिजातः कुलजे बुधे ॥पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतःकृते ।युक्ते तु संस्कृतेऽमर्षिण्यभिनीतः प्रचक्ष्यते ॥
17.4.1 · p. 40
अनुष्टुप्