कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

अजन्तवर्गः

ऊँ प्रश्नेऽङ्गीकृते रोषे प्रौढे ब्रह्मणि चाव्ययम् ।अः स्याद्ब्रह्मणि विष्ण्वीशकूर्माङ्कणरणेषु च ॥गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्घ्रावुमेज्ययोः ।आ प्रगृह्ये स्मृतौ वाक्ये परितापे पितामहे ॥घटे भावे च आस्तु स्यादव्ययं कोपपीडयोः ।आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥इर्वितर्के स्मरे हारे फणरत्नद्युतौ पुमान् ।अग्रे करेणुकक्ष्यान्ते गुहायां शशितेजसि ॥ईर्वारिजदले लक्ष्म्यां वाण्यां कमलकेसरे ।उः शंभौ क्षत्रिये नेत्रे हरमौलौ हरावपि ॥ऊः स्याच्छुचीन्द्वोः पुरुषे राजपुत्रे गले सुरे ।प्राङ्क(ङ्ग)णोपमयोः पूर्णकुम्भे वणिजि रक्षणे ॥ऋः कुञ्जरे शिखरिणि विभेदे देवमातरि ।भावे देवरिपौ नद्यां सुरायां विवरे दिवि ॥ऋ दृष्ट्यां चिकुरे वाताशने विगतसंपदि ।हिमपद्मदितिस्वर्गधनभूषाभुजाम्बुषु ॥लृः कुलीरे कपेर्दन्ते हस्तिनामपि दंष्ट्रके ।स्वर्गादित्योर्लिप्तगात्रे गतनप्तरि रक्षसि ॥लॄ तु स्यात्कृकलासेन्द्रावङ्केऽक्ष्णि मकरे सुरे ।लीलागते लोचनास्थ्नि नागमातरि मातरि ॥एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ ।व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे ॥ऐ हस्ते दिङ्मुखे वाते हरेऽद्रिशिखरे त्वचि ।ओ वारिजे जले कुड्ये श्रीदमेघेन्दुयोनिषु ॥शक्रे जीवे विरिञ्चे स्यादौः स्कन्दे गणनायके ।विशुद्धाङ्गेन्दुकलयोरनन्ते सिद्धपुष्पके ॥अंशब्दो वक्रवाक्येऽतिदीर्घेऽञ्जलिनियोगयोः ।सप्तस्वरादिमाने च परज्योतिषि च स्मृतम् ॥अः शिखायां सिद्धमन्त्रे प्रगाहेऽर्के रथार्वणि ।चक्रे कुक्कटमूर्ध्नीन्दुबिम्बे ब्रह्मेशविष्णुषु ॥
1.1 · p. 1
अनुष्टुप्