All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
रेफान्तवर्गः · त्र्यक्षररेफान्ताः
इति द्व्यक्षररेफान्ताः ।
शृङ्गारः सुन्दरे नाट्ये रसेऽपि गजमण्डने ।नपुंसि चूर्णसिन्दूरलवङ्ककुसुमेषु च ॥गान्धारः स्वरभेदे स्यान्न स्त्री देशे रतान्तरे ।मुर्मुरस्तु तुषाग्नौ च किशोरस्तुरगेऽर्भके ॥कुटीरं क्षुद्रभेदे स्याच्चत्वरं तु चतुष्पथे ।शीघ्रे च शम्बरो दैत्यभेदे क्लीबे जले पुमान् ॥विष्फारो धनुषः स्वाने प्रभूते जृम्भितेऽपि च ।विधुरस्त्वरितेऽधीरे कष्टविश्लेषयोरपि ॥नागरे कौरवामात्ये विवशे विकलेऽन्यवत् ।अपत्नीके सुन्दरी तु पल्लवे विद्रुमस्त्रियोः ॥सिन्दूरं तु शिलाभेदे नागसंभववृक्षयोः ।केसरोऽस्त्री स्कन्धरोम्णि किञ्जल्के वकुले तु ना ॥पुंनागे च नपुंसि स्यान्नागकेसरहिङ्गुनोः ।कर्परस्तु कपाले स्याच्छस्त्रे घटकपालके ॥कान्तारो दुर्गमे मार्गे दुर्भिक्षे पातके वने ।संस्तरः प्रस्तरे यज्ञे बर्बरः पामरे पुमान् ॥कुन्तलानां च विन्यासनीवृदन्तरयोरपि ।स्त्रियां तु कञ्जिकायां च पुष्पदेवेन्द्रयोरपि ॥बन्धुरं मङ्गले रम्ये नम्रे हंसे तु पुंसि तत् ।बन्धूके च विहङ्गे च बन्धुरापण्ययोरपि ॥दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः ।करीरः कलशे वृक्षभेदे वंशाङ्कुरेऽपि च ॥करीरूश्चीरिकायां च दन्तमूले च दन्तिनाम् ।करीरं कोणमध्यस्थपुलिने दर्दुरे तटे ॥शर्करा खण्डविकृतावुपलाकर्परांशयोः ।शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च ॥कावेरी स्यात्सरिद्भेदे पण्यनारीहरिद्रयोः ।गाङ्गेरी बृहतीहिंसामक्षिकामातृकेषु च ॥पिञ्जरं कनके राजभेदे पीते च पुंसि तत् ।शिखरं शैलवृक्षाग्रे रक्षापुलककोटिषु ॥पक्वडाडिमबीजाभमाणिक्यकलशेषु च ।पुंलिङ्गे तु शिवाभेदे खट्वाङ्गे द्वारपालके ॥ईश्वरो दैवते चाढ्ये शंभौ स्वामिनि मन्मथे ।समर्थेऽब्देश्वरीच्छायां पार्वत्यामीश्वरा मता ॥तमिस्रं तिमिरे रोगे तमिस्रा तामसीनिशि ।कुमारो बालके स्कन्दे पुत्रे नामनि वाच्यवत् ॥नमेरुः सुरपुंनागे सुमेरुः कनकाचले ।आधार आलवालेऽम्बुबन्धे च किरणेऽपि च ॥स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम् ।परिधानेऽवधौ मध्येऽन्तरात्मनि नपुंसके ॥विनावसरबाह्येषु चाम्बरं व्योम्नि वाससि ।सुगन्धिनि च कार्पासे गोपुरं द्वारमात्रके ॥पुस्तके च पुरद्वारे पुरे सौधेन्द्रियेऽपि च ।शारीरः क्षोभकरणे शुके शकुनिकान्तरे ॥युद्धार्थे गजपर्याणे व्यवहारे च वाच्यवत् ।आसारः स्यात्प्रहरणे वेगे वृष्टौ सुहृद्बले ॥प्रवेशे च प्रसारे च कुञ्जरः कुन्तले पुमान् ।मस्तके भूषणे नागे पुष्करो द्वीपसर्पयोः ॥तीर्थे खड्गफले तोयकरिहस्ताग्रयोरपि ।वाद्यभाण्डमुखे पद्मे व्योम्नि मार्गे तिथावपि ॥विहारो भ्रमणे स्पन्दे लीलायां सुरतालये ।रुधिरोऽङ्गारके छागे कुङ्कुमे शोणिते पुमान् ॥प्रकारो भेदसादृश्यकृतिष्वस्त्रीङ्गितेऽपि च ।द्वापरो युगभेदे स्यात्संशयेऽपि पुमान्भवेत् ॥किंशारुर्धान्यशूकेषुकङ्कपक्षिषु कथ्यते ।प्रदरो भङ्गनारीरुग्बाणभीर्दारणेषु च ॥दीर्णे स्वयं चावटे स्यात्तूवरस्तु प्रचक्षते ।अजातशृङ्गेऽप्यश्मश्रौ संगरस्तु विषापदोः ॥शमीफले क्रियाकारे प्रतिज्ञासंविदाजिषु ।विष्टरो विटपौ दर्भमुष्टौ पीठाद्य आसने ॥मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ।क्रोधे च मक्षिकायां कलत्रं श्रोणिभार्ययोः ॥नृपतिप्रभृतीनां तु दुर्गस्थानेऽपि च स्मृतम् ।अजीरं विषये काये चाङ्गणेऽपि तदिष्यते ॥अक्षरं स्याद्ब्रह्मणि च वर्णे मोक्षेऽप्यनाशने ।गह्वरं तु गुहादम्भनिकुञ्जगहनेष्वपि ॥औशीरं चामरे दण्डे चासने शयने भवेत् ।पिठरो मन्थदण्डे स्यात्स्थाल्यां स्त्री मुस्तहिंस्रयोः ॥नागरः सुरते संज्ञा चान्तर्जाते नपुंसकम् ।राजीवकन्दे चर्यां(?) प्रवीणाकुत्सितयोर्विना ॥शार्वरं त्वन्धतमसि घातुके भेद्यलिङ्गकम् ।शबरे कुञ्जरे वाच्यलिङ्गः स्याद्धिंसनेऽपि च ॥कुक्षौ तु जठरो न स्त्री त्रिषु वृद्धकठोरयोः ।अधरस्तु निकृष्टोष्ठायादेशेष्वपि(?) वाच्यवत् ॥एकाग्रमेकतानेऽनाकुले चोत्तरमुच्यते ।उपर्युदीच्यश्रेष्ठेषु प्रतिवाक्येऽप्यपुङ्गके (?) ॥विराटतनये ऋक्षे स्त्रियां पुंसि च शस्यते ।मधुरस्तु प्रिये स्वादौ रसभेदे पुरे स्त्रियाम् ॥उदारो दातृमहतोरितरस्त्वन्यनीचयोः ।उररी चोररी द्वे च विस्तारेऽङ्गीकृतेऽपि च ॥विकारि (री?) वर्षेऽङ्गहीने शर्वरी रात्रिवर्षयोः ।कबरी केशपाशे च हिङ्गुपत्रेऽपि च द्वयोः ॥
28.3.1 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 5 द्ब्र (wrong syllable)