कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

णान्तवर्गः · द्व्यक्षरणान्ताः

इत्येकाक्षरणान्ताः ।

गुणोऽप्रधाने ज्यासूतरूपादिषु वृकोदरे ।स्तम्भे संध्यादिसत्त्वादिशब्दादिहरितादिषु ॥अभ्यासेन्द्रियविद्यादिपटुत्वाद्यर्जुनेषु च ।द्रव्याश्रिते नीतिशास्त्रे सांख्यादिविनयादिषु ॥शौर्ये धैर्ये च गाम्भीर्ये कूपके दधिलक्षणे ।न स्त्रियां स्यादौदनिके चाथ द्रोणस्तु पर्वते ॥आढकानां चतुष्के च वायसे नीवृदन्तरे ।कृपीपतौ च द्रोणी तु गवां घासपरिस्थले ॥स्त्रियां काष्ठाम्बुवाहिन्यामथ भ्रूणोऽर्भकेऽपि च ।स्त्रैणगर्भेऽथ बाणस्तु बलिसूनौ शरे पुमान् ॥कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके शरे ।वेणी स्यात्कचबन्धे च जलस्रोतसि चाल्पके ॥घोणी भूदारकेऽपि स्यादेणी तु मृगयोषिति ।गणः समूहे प्रमथे गणनायामपि स्त्रियाम् ॥सेनाविशेषे वितते मणी रत्नेऽपि कथ्यते ।पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ताम्रिके कार्षिके कुक्कुटायुधादिपरिग्रहे ।कुणिस्त्वौषधभेदे च कुकरेऽपि च पुंस्ययम् ॥स्थाणुः शर्वे स्थावरादौ स्थिरे कीले प्रकीर्तितः ।वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे ॥विलेपने कथायां च गुणरूपयशःसु च ।निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥रवे युद्धे रणः पुंसि ध्वनिमात्रे कणक्कणौ ।ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ॥स्थूणा स्तम्भे गुहस्य स्याल्लोहादिप्रतिमासु च ।स्पृहापिपासयोस्तृष्णा जुगुप्सा करुणा घृणे ॥तीक्ष्णं समुद्रलवणे विषे लोहादिसैन्ययोः ।युद्धे त्रिषु खरे क्षारे कटौ चात्मघ्नि पुंसि वा ॥प्राणो हृन्मारुते बोले काव्ये जीवेऽनिले बले ।तार्णं तु तृणजाले स्यात्क्लीबे त्राणं तु रक्षणे ॥कृष्णस्तु केशवे व्यासे कोकिलेऽर्जुनकाकयोः ।शूद्रे तामिस्रपक्षेऽग्निकलिनीलगुणेषु चकृष्णा तु द्रौपदीनीलीहरक्रूरेष्वपि त्रिषु ।पिप्पल्यां च तुलस्यां च क्लीबे लोहमरीचयोः ॥दुरिते मेचके द्रव्येऽथो श्रेणिः कारुसंहतौ ।रथ्यापङ्क्तौ सेकपात्रे नितम्बे श्रोणिरिष्यते ॥वृष्णिस्तु यादवे मेषे जयन्तेऽपि च कथ्यते ।कर्णः श्रोत्रे सूर्यपुत्रे तूर्णं शीघ्रे तदव्ययम् ॥जिष्णुर्जेतरि देवेन्द्रे विष्टरश्रवसि स्मृतम् ।
16.2.1 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दौ (wrong syllable)