All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
शान्तवर्गः · द्व्यक्षरशान्ताः
इत्येकाक्षरशान्ताः ।
दशा वर्ताववस्थायां वस्त्रान्ते समयेऽपि च ।पाशः क(के?)शान्ते संघार्थे कर्णान्ते शोभनार्थके ॥छिद्राद्यन्ते च निन्दार्थे पुमान्पक्ष्यादिबन्धने ।पलायने च रज्जौ च निधानावु(?)पलम्भयोः ॥वशः प्रभुत्वेच्छायत्तगजेषु त्रिषु तद्वति ।स्ववशायां वशायां च स्पृहायां च जनेऽपि च ॥वशा वन्ध्यासुतयोषाज्ञानिकुञ्जरनारिषु ।वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥नासादण्डे चाथ कुशं जले दर्भान्तरे नपुम् ।योक्त्रे रामात्मजे द्वीपे पुमानौदुम्बरे स्त्रियाम् ॥छन्दोगस्तोत्रगणनाशङ्कास्वथ कुशीष्यते ।पापिष्ठमत्तयोर्वाले भल्लायामयसि स्त्रियाम् ॥केशो दैत्ये भगे वाले ह्नीबेरे च प्रचेतसि ।कोशोऽस्री मुकुले दिव्ये शस्त्रार्थौघे गृहे तिथौ ॥शिश्ने जातिफले खड्गपिधाने योनिवित्तयोः ।काशः साम्ये दर्भभेदे प्रकाशेऽपि पुमानयम् ॥आशा दिग्भूव्याप्तितृष्णास्वथ राशिस्तु पुंसि च ।मेषादौ द्रव्यबाहुल्ये विशो वैश्ये नरे द्वयोः ॥स्पशस्तु चारे संग्रामे भीमरे पवनेऽपि च ।बाधने प्रणिधौ शुद्धे पुंसि प्रांश उपाङ्गके ॥निशा रात्रीशारिबयोरश्वादेस्ताडने कशा ।
31.2.1 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)