All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
शान्तवर्गः · त्र्यक्षरशान्ताः
इति व्द्यक्षरशान्ताः ।
प्रकाशोऽतिप्रसिद्धे स्यादातपे कोशवत्यपि ।प्रहासेऽथ पलाशस्तु हरित्किंशुकयातुषु ॥पत्रे नपुंसि कलशः पयस्यमृतमन्द्रयोः ।घटे निवेशः शिबिरे वाहन्यासगृहेष्वपि ॥कीनाशस्तु यमे पुंसि क्षुद्रकर्षकयोस्त्रिषु ।उपांशुघातिनि कर्कशे निदेशस्तु भाषणे ॥शासनोपान्तयोश्चाथाभीशुः प्रग्रहरश्मिनोः ।विमर्शः साध्वसाधुत्वविवेकेषु प्रशस्यते ॥कर्कशः कठिने क्रूरे कृप(पा?)णे निर्दये दृढे ।आयुर्वेदे द्रव्यभेदे कृष्णेक्षौ खर्वकाण्डयोः ॥अपीवरे साहसिके निस्त्रिंशः क्रूरखड्गयोः ।निकाशस्तु प्रकाशे स्यात्सदृशे रहसि स्मृतः ॥निर्वेशो भोगभृतयोः शिशावज्ञेऽपि बालिशः ।
31.3.1 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)