All kośas › Nānārthamañjarī
नानार्थमञ्जरी Nānārthamañjarī
131 verses · text only, tagging comes next
भान्तवर्गः · द्व्यक्षरभान्ताः
इत्येकाक्षरभान्ताः ।
जम्भो दैत्यान्तरे दम्भे जम्बीरे भक्षणेऽपि च ।कुम्भः स्यात्कुम्भकर्णस्य पुत्रे वेश्यापतौ घटे ॥गुग्गुलौ गजमूर्धांशे राशौ त्रिवृतमानयोः ।कुम्भीभपाटलावारिपर्णीपिठरकट्फले ॥शिशुबालिशयोर्डिम्भः स्तम्भस्तु स्थूणजाड्ययोः ।निश्चेष्टालानकाष्ठेषु शंभुर्ब्रह्मेशविष्णुषु ॥गर्भोऽपवरकेऽन्तःस्थे सुते नग्ने च कन्दरे ।कुक्षौ कुक्षिस्थजन्तौ च भ्रूणे पनसकण्टके ॥सुम्भो दैत्ये बालके च नाभिः प्राण्यङ्गजे पुमान् ।क्षत्रिये मध्यकोष्ठे च शुक्रास्तचक्रवर्तिनोः ॥क्षेत्रे प्रधाने चक्रस्य मध्ये कस्तूरिकामदे ।सभा संसदि सभ्येन्दीवरसामाजिकेष्वपि ॥द्यूते दुरोवरे कान्तियुक्ते त्रिष्वपि विश्रुतम् ।कदल्यप्सरसो रम्भा शोभा स्त्री कान्तिरागयोः ॥
25.2.1 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 स्त (wrong syllable)