कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

षान्तवर्गः · त्र्यक्षरषान्ताः

इति व्द्यक्षरषान्ताः ।

महीषी राजपत्न्यां च महिषस्य च योषिति ।पुरुषो मानवे सांख्ये ज्ञे च पुंनागजीवयोः ॥पुराणपुरुषेऽपि स्यान्नृमाने पौरुषं त्रिषु ।पुंभावे तत्क्रियायां च प्रभावे संततावपि ॥आमिषं सुन्दराकाररूपादिविषये भवेत् ।संभोगलोप(भ?)योर्मांसे पुंसि चोत्कोचलाभयोः ॥पारावारे च कनके निकषात्म(षोश्म)परीक्षके ।अभीषुः प्रग्रहे रश्मौ विषेशोऽवयवे नवे ।निखिलातिशयाव्यक्तद्रष्टव्योत्तमवस्तुषु ॥उष्णीषस्तु शिरोवेष्टे किरीटे पुंनपुंसकम् ।आकर्षः शारिफलके द्यूतेऽक्षे कार्मुकेऽपि च ॥किल्बिषं त्वपराधे स्यान्नपुंसि दुरिते रुजि ।शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रधानयोः ॥शैलूषो दारजीवे स्यात्किराते नटबिल्वयोः ।
32.3.1 · p. 87
अनुष्टुप्