कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthamañjarī

नानार्थमञ्जरी Nānārthamañjarī

131 verses · text only, tagging comes next

गान्तवर्गः · त्र्यक्षरगान्ताः

इति व्द्यक्षरगान्ताः

परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ।गिरिप्रभेदे विख्यात उपरागे च चन्दने ॥मतङ्गस्तु गजेऽपि स्याच्चण्डालमुनिभेदयोः ।अपाङ्गो नेत्रयोरन्ते तिलकाङ्गविहीनयोः ॥सारङ्गः पुंसि हरिणे चातके गजभृङ्गयोः ।रागभेदे भृगौ नृत्ते शबले तु त्रिषूच्यते ॥वराङ्गं स्याद्गजे मूर्ध्नि स्त्रीयोनौ च गुद(ड?)त्वचि ।पतङ्गः शालिभेदेऽग्नौ मार्जाले पारदे शरे ॥विहंगे शलभे सूर्ये त्रिवर्गस्तु दिनत्रये ।वृद्धौ च धर्मकामार्थे त्रिफलायां त्रिपूरुषे ॥स्थानक्षये सत्त्वरजस्तामसेषु पुमानयम् ।उत्सर्गो वर्जने त्यागे सामान्यन्यायदानयोः ॥रक्ताङ्गो विद्रुमे भौमे विधौ कम्पिल्लधरियोः ।जीवन्तीशूकधान्येषु रोचन्यां तन्नपुंसकम् ॥उद्वेगः स्तिमिते क्लेशे भयेऽमन्थरगामिनि ।सुन्दरेऽधिकभाग्यांशे दुर्दिनेतरवासरे ॥प्लवंगो वानरे भेके सारथौ चोष्णदीधितौ(तेः) ।संवत्सरेऽपि सुभगस्तुरीयांशेऽपि श्रीमतौ ॥आशुगः पवने बाणे जङ्घालेऽपि पुमान्भवेत् ।उत्सङ्गो मुक्तसंयोगे सक्थिन्यूर्ध्वकलाङ्कयोः ॥भुजंगोऽहौ विटे वृक्षे तरङ्गो वीचिकम्पयोः ।अनङ्गो मन्मथे वायौ पिशाचच्छाययोरपि ॥
4.3.1 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ध (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 5 पि (wrong syllable)