All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
धान्ताः · धश्लोकः
॥ धश्लोकः ॥
मधु मद्ये च क्षौद्रे [च मधु] पुष्परसे जले ।मधुश्चैत्रे मधूके तु मधुर्दैत्यवसन्तयोः ॥
18.3.1 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
सन्धिर्भागे सुरुङ्गायां सन्धिः संघटनेऽपि च ।नाटकाङ्गेऽपि सन्धिः स्यादवकाशेऽपि विद्यते ॥
18.3.2 · p. 104
अनुष्टुप्
स्कन्धो राज्ञि भुजामूले समाम्नायसमूहयोः ।काये तरुप्रकाण्डे स्याद्राज्ञां भाण्डादिके करे ॥
18.3.3 · p. 104
अनुष्टुप्
मागघी पिप्पलीयूथ्योर्मागधो मगधोद्भवः ।मागधा बन्दिनः क्वापि सुताश्च क्षत्रियाविशोः ॥
18.3.4 · p. 104
अनुष्टुप्
अनुबन्धो दोषोत्पादे प्रकृत्यादिविनश्वरे ।मुख्या[53]नुयायिनि शिशौ प्रकृतस्यानिवर्तने ॥
18.3.5 · p. 104
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दो (wrong syllable)