All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
हान्ताः · हश्लोकः
॥ हश्लोकः ॥
सहः शक्तौ क्षमायुक्ते तुल्यार्थे तु सहाव्ययम् ।सहा भूः सहदेवा स्यादर्यमाख्यौषधिस्तथा ॥
32.3.1 · p. 230
अनुष्टुप्
सिंहो राशिविशेषः स्यान्मृगेन्द्रः सिंह इष्यते ।कण्टकारी च वार्ताकी सिंही राहोरपि प्रसूः ॥
32.3.2 · p. 231
अनुष्टुप्
प्रग्रहस्तु तुलासूत्रे वहुवादिमतेऽपि च ? ।भासि योक्त्रे च वृक्षे च सुवर्णहलिसाह्वये ॥
32.3.4 · p. 231
अनुष्टुप्
प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ।द्विजेभ्यो विधिवद्देये तद्ग्रहे च प्रकीर्तितः ॥
32.3.6 · p. 231
अनुष्टुप्