कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Dharaṇikośa

धरणिकोश Dharaṇikośa

1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)

Part 1

घरणिदासकृतः धरणिकोशः ।

॥ श्रीगणेशाय नमः ॥

विशुद्धिज्ञानदेहाय भूतनाथाय वेधसे ।हिताय सर्वलोकानां नमस्ते सर्ववेदिने ॥
1 · p. 1
अनुष्टुप्
यस्य ज्ञानदयासिन्धोः पारार्थैकफला गुणाः ।स चेत्करोतु कल्याणं सर्ववित्परमेश्वरः ॥
2 · p. 1
अनुष्टुप्
सा ते भवतु सुप्रीता वागर्थप्रतिपत्तये ।हेतवे सर्वभूतानां सर्वशुक्ला सरस्वती ॥
3 · p. 1
अनुष्टुप्
देवदेवं प्रणम्यादौ सर्वज्ञं जगतो गुरुम् ।समाहृत्यान्यतन्त्राणि क्रियते सारसंग्रहः ॥
4 · p. 1
अनुष्टुप्
पादैः पादद्वयैः श्लोकैरनेकार्थसमुच्चयः ।एष कान्तेन वर्गेण कवीनां सुखहेतवे ॥
5 · p. 1
अनुष्टुप्
एकद्वित्रिचतुःपञ्चषड्वर्णाः क्रमशस्त्विह ।शब्दाः पादेषु चार्धेषु श्लोकेषु सति संभवे ॥
6 · p. 1
अनुष्टुप्
क्व[2]चिदेषां विपर्यासो लिङ्गार्थस्यानुरोधतः ।यथेह [भोगि ?] भोगिन्योर्यथा विवररन्ध्रयोः ॥
7 · p. 2
अनुष्टुप्
यो नानार्थः समुद्दिष्ट आदावेव [च] सर्वतः ।स्पष्टाय लिङ्गभेदाय क्वचिदावृत्तिरिष्यते ॥
8 · p. 2
अनुष्टुप्