All kośas › Dharaṇikośa
धरणिकोश Dharaṇikośa
1,382 verses · 11,274 words tagged · 1,895 marked doubtful (dashed)
चान्ताः · चश्लोकः
॥ चश्लोकः ॥
शुचिरग्नौ सिते ग्रीष्मे शुद्धेऽनुपहतेऽपि च ।उपधाशुद्धसचिवे शृङ्गाराषाढयोरपि ॥
5.3.1 · p. 30
अनुष्टुप्
सूची सीवनवस्तु स्यात्सूची त्वभिनये व्यये ।सूची च करणे प्रोक्ता रतताण्डवशीलिनाम् ॥
5.3.2 · p. 30
अनुष्टुप्
प्रागुदक्प्रत्यगित्येते दिद्गेशे कालतोऽव्ययम् ।प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥
5.3.3 · p. 30
अनुष्टुप्
मलिम्लुचोऽग्निरुद्दिष्टश्चौरश्चापि मलिम्लुचः ।अमावास्याद्वयं यत्र मासः सोऽपि मलिम्लुचः ॥
5.3.4 · p. 30
अनुष्टुप्