कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

Part 1

अनेकार्थसङ्ग्रहः

हेमचन्द्राचार्यविरचितः

ध्यात्वाऽर्हतः कृतैकार्थशब्दसंदोहसंग्रहः ।एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसङ्ग्रहम् ॥ १ ॥
1
अनुष्टुप्
अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः ।उद्देश्यवचनं पूर्वं पश्चादर्थप्रकाशनम् ॥ २ ॥
2
अनुष्टुप्
यत्रैक एव रूढोऽर्थो यौगिकस्तत्र दर्शितः ।अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ ३ ॥
3
अनुष्टुप्
पदानां भङ्गतो योऽस्मिन्नेकार्थः प्रकाशते ।प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ ॥
4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्