All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
चतुःस्वरकाण्डः · चतुःस्वरनान्ताः
इति चतुःस्वरधान्ताः ।
अपाचीनं विपर्यस्ते पामर्थेऽभिजनः कुले ।कुलध्वजे जन्मभूम्यामभिमानस्त्वहङ्कृतौ ॥ १६० ॥
4.15.160
अनुष्टुप्
हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः ।अवदानमतिवृत्ते खण्डने शुद्धकर्मणि ॥ १६१ ॥
4.15.161
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
अन्वासनं स्नेहवस्तौ सेवायामनुशोचने ।अग्रजन्माऽग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥ १६३ ॥
4.15.163
अनुष्टुप्
शिष्यप्रान्तगयोश्चाप्यायोधनं समरे वधे ।आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च ॥ १६४ ॥
4.15.164
अनुष्टुप्
आच्छादनं तु वासेन संपिधानेऽपवारणे ।आकलनं परिसंख्याकांक्षयोर्बन्धनेऽपि च ॥ १६५ ॥
4.15.165
अनुष्टुप्metre not read in every line
आतञ्चनं स्याज्जवेन प्रीणनप्रतिवापयोः ।आवेशनं भूतावेशे प्रवेशे शिल्पवेश्मनि ॥ १६६ ॥
4.15.166
अनुष्टुप्
आस्कन्दनं तिरस्कारे संशोषणसमीकयोः ।आत्माधीनः सुते प्रामाधारे श्याले विदूषके ॥ १६७ ॥
4.15.167
अनुष्टुप्
आत्मयोनिः स्मरे वेधस्युद्वर्तनं विलेपने ।अपावृत्तावुत्पतने स्यादुपासनमासने ॥ १६८ ॥
4.15.168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्त (wrong syllable)
शुश्रूषायां शराभ्यासेऽप्युषधानं तु गेन्दुके ।व्रते विशेषे प्रणये स्यादुत्पतनमुत्प्लुतौ ॥ १६९ ॥
4.15.169
अनुष्टुप्
उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे ।उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च ॥ १७० ॥
4.15.170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
उद्वाहनं द्विसीत्ये स्यादुद्वाहनी वराटके ।कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः ॥ १७१ ॥
4.15.171
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
कलध्वनिः परभृते पारावतकलापिनोः ।कात्यायनो वररुचौ कात्यायनी तु पार्वती ॥ १७२ ॥
4.15.172
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
काषायवस्त्रविधवाऽर्द्धवृद्धा महिलाऽपि च ।कामचारी कलविङ्के स्वेच्छाचारिणि कामुके ॥ १७३ ॥
4.15.173
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
कारन्धमी धातुवादनिरते कांस्यकारिणि ।किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः ॥ १७४ ॥
4.15.174
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पो (wrong syllable)
कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने ।कुम्भयोनिर्द्रोणेऽगस्त्ये कृष्णवर्त्मा विधुन्तुदे ॥ १७५ ॥
4.15.175
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 र्द्रो (wrong syllable)
दुराचारे हुताशे च गवादनीन्द्रवारुणी ।घासस्थानं गवादीनां गदयित्नुः शरासने ॥ १७६ ॥
4.15.176
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable)
जल्पाके पुष्पचापे च घनाघनो निरन्तरे ।वासवे घातुके मत्तगजे वर्षुकवारिदे ॥ १७७ ॥
4.15.177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ (wrong syllable)
घोषयित्नुः पिके विप्रे चिरजीवी तु वायसे ।अजे च चित्रभानुस्तु हुताशनदिनेशयोः ॥ १७८ ॥
4.15.178
अनुष्टुप्
जलाटनः कङ्कखगे जलाटनी जलौकसि ।तपोधना तु मुण्डीर्यां तपोधनस्तपस्विनि ॥ १७९ ॥
4.15.179
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable); pāda 4, syllable 3 ध (wrong syllable)
तपस्विनी पुनर्मांसी कटुरोहिणिकापि च ।तिक्तपर्वा हिलमोची गुडूची मधुयष्टिका ॥ १८० ॥
4.15.180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि ।नागाञ्जना नागयष्टौ द्विरदस्य च मुद्गरे ॥ १८१ ॥
4.15.181
अनुष्टुप्
निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे ।निधुवनं रते कम्पे निर्वासनं तु मारणे ॥ १८२ ॥
4.15.182
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 व (wrong syllable); pāda 4, syllable 3 स (wrong syllable)
पुरादेश्च बहिष्कारे निरसनं निषूदने ।निष्ठीवने निरासे च निशमनं निशामनम् ॥ १८३ ॥
4.15.183
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable); pāda 4, syllable 3 म (wrong syllable)
निरीक्षणश्रवणयोर्निर्भर्त्स्ननमलक्तके ।खलीकारे प्रजननं प्रगमे योनिजन्मनोः ॥ १८४ ॥
4.15.184
अनुष्टुप्
प्रणिधानमभियोगे समाधानप्रवेशयोः ।प्रयोजनं कार्यहेत्वोः स्यात् प्रवचनमागमे ॥ १८५ ॥
4.15.185
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable); pāda 4, syllable 2 प्र (wrong syllable)
प्रकृष्टवचने प्रस्फोटनं शूर्पे प्रकाशने ।ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥ १८६ ॥
4.15.186
अनुष्टुप्
प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्स्योः ।प्रहसनं च प्रहसाक्षेपयोः रूपकान्तरे ॥ १८७ ॥
4.15.187
metre not recognised
प्रतिमानं प्रतिबम्बे गजदन्तद्वयान्तरे ।प्रसाधनी कङ्कतिकासिद्ध्योः प्रसाधनं पुनः ॥ १८८ ॥
4.15.188
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable); pāda 4, syllable 3 प्र (wrong syllable)
वेषे प्रचलाकी सर्पे मयूरेऽथ पयस्विनी ।विभावर्यां गोधेन्वां च पुण्यजनस्तु सज्जने ॥ १८९ ॥
4.15.189
metre not recognised
गुह्यके यातुधाने च पृथग्जनोऽधमे जडे ।पृष्ठश्रृङ्गी भीमसेने षण्डसेरिभयोरपि ॥ १९० ॥
4.15.190
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ग्ज (wrong syllable)
महाधनं महामूल्ये सिह्लके चारुवाससि ।महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः ॥ १९१ ॥
4.15.191
अनुष्टुप्
अगस्तिकुस्तुम्बुरुणोर्मालुधानी लताभिदि ।मालुधाना मातुलाहौ मातुलानी पुनः शणे ॥ १९२ ॥
4.15.192
अनुष्टुप्
कलापे मातुलपत्न्यां रसायनो विहङ्गमे ।पक्षीन्द्रे रसायनं तु जराव्याधिजिदौषधे ॥ १९३ ॥
4.15.193
metre not recognised
राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके ।रोचमानो दीप्ययाने कण्ठावर्त्ते च वाजिनः ॥ १९४ ॥
4.15.194
अनुष्टुप्
वर्द्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु ।प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः ॥ १९५ ॥
4.15.195
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वी (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
प्रह्लादानन्दने चन्द्रे विहेठनं विडम्बने ।हिसायां मर्दने विस्मापना स्यात्कुहके स्मरे ॥ १९६ ॥
4.15.196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ठ (wrong syllable)
गन्धर्वनगरे चापि विष्पक्सेनो जनार्दने ।विष्वक्सेना तु फलिनी विश्राणनं विहापिते ॥ १९७ ॥
4.15.197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण (wrong syllable)
संप्रेषणे परित्यागे विहननं तु पिञ्जने ।वधेऽथ विश्वकर्मार्के मुनिभिद्देवशिल्पिनोः ॥ १९८ ॥
4.15.198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
विघ्नकारी विघातस्य कारके घोरदर्शने ।विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि ॥ १९९ ॥
4.15.199
अनुष्टुप्
वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः ।वृक्षादनी तु वन्दायां विदारीगन्धिकौषधे ॥ २०० ॥
4.15.200
अनुष्टुप्
वृषपर्वा तु श्रृङ्गारिहरदैत्यकसेरुषु ।वैरोचनो रविसुते सुगते बलिदानवे ॥ २०१ ॥
4.15.201
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
श्वेतधामा घनसारे कलानाथाब्धिफेनयोः ।श्लेष्मघना तु केतक्यां मल्यामथ समापनम् ॥ २०२ ॥
4.15.202
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable); pāda 3, syllable 3 घ (wrong syllable)
परिच्छेदे समाधाने समाप्तिवधयोरपि ।सम्मूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते ॥ २०३ ॥
4.15.203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ।सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे ॥ २०४ ॥
4.15.204
अनुष्टुप्
संयमनं व्रते बन्धे संयमनी यमस्य पूः ।समादानं समीचीनग्रहणे नित्यकर्मणि ॥ २०५ ॥
4.15.205
अनुष्टुप्metre not read in every line
समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ।संवदनं च संवादे समालोचे वशीकृतौ ॥ २०६ ॥
4.15.206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 द (wrong syllable)
समुत्थानं निदानेऽभियोगे संवाहनं पुनः ।वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके ॥ २०७ ॥
4.15.207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ङ्ग (wrong syllable)
कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ।सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि ॥ २०८ ॥
4.15.208
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जि (wrong syllable)
मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे ।काञ्च्यां च सामयोनिस्तु सामोत्थे द्रुहिणे गजे ॥ २०९ ॥
4.15.209
अनुष्टुप्metre not read in every line
सामिधेनी समिदृचोः सुधामुनो जनार्दने ।प्रासादे वत्सराजेऽद्रिभेदे वाऽथ सुदर्शनम् ॥ २१० ॥
4.15.210
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
विष्णोश्चक्रे सुदर्शन्यमरवत्यां सुदर्शना ।आज्ञायामौषधीभेदे मरुजम्ब्वां पुरीभिदि ॥ २११ ॥
4.15.211
अनुष्टुप्
सौदामिनी तडिद्भेदतडितोरप्सरोभिदि ।हर्षयित्नुः सुते स्वर्णे-
4.15.53
अनुष्टुप्metre not read in every line