कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

पञ्चस्वरकाण्डः · पञ्चस्वरकान्ताः

इति चतुःस्वरहान्ताः ।

इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे चतुःस्वरकाण्डश्चतुर्थः ।

अथ पञ्चमः काण्डः

स्यादाच्छुरितकं हासनखघातविशेषयोः ।उपकारिका पिष्टभेदोपकारेशवेश्मसु ॥ १ ॥
5.1.1
अनुष्टुप्metre not read in every line
कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ।द्वाःस्थे षिड्गे कवौ रङ्गाजीवेऽथ कटखादकः ॥ २ ॥
5.1.2
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कः (wrong syllable)
खादके काचकलशे शृगालबलिपुष्टयोः ।कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः ॥ ३ ॥
5.1.3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
स्याद्गोजागरिकं भक्ष्यकारके मङ्गलेऽपि च ।चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि ॥ ४ ॥
5.1.4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले ।शङ्खे जललतायाञ्च जलनायको मत्स्यके ॥ ५ ॥
5.1.5
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 ल (wrong syllable); pāda 4, syllable 5 को (wrong syllable)
काकोच्यां राजशफरे नवफलिका नूतने ।नवजातरजोनार्यामप्यथो नागवारिकः ॥ ६ ॥
5.1.6
अनुष्टुप्metre not read in every line
गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे ।चित्रमेखलके प्रोक्तः स्यादथो व्यवहारिका ॥ ७ ॥
5.1.7
अनुष्टुप्
लोकयात्रेङ्गुदीवर्धनीष्वथ व्रीहिराजिकः ।चीनान्ने कामलिकायामप्यथो शतपर्विका ॥ ८ ॥
5.1.8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 लि (wrong syllable)
स्याद्वचादूर्वयोः शीतचम्पकौ दीपतर्पणे ।सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥ ९ ॥
5.1.9
अनुष्टुप्
हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका ।
5.1.10