कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

द्विस्वरकाण्डः · द्विस्वरसान्ताः

इति द्विस्वरषान्ताः ।

अर्चिर्मयूखशिखयोरदोऽत्र च परत्र च ॥ ५६१ ॥
2.30.561
आगः स्यादेनोवदघे मन्तावाशीर्हितैषणे ।उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥ ५६२ ॥
2.30.562
अनुष्टुप्
उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः ।अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ॥ ५६३ ॥
2.30.563
अनुष्टुप्
ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः ।पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥ ५६४ ॥
2.30.564
अनुष्टुप्
बुद्धौ विकलवाचि स्याद्गुत्सः स्तम्बगुलुच्छयोः ।हारभेदे ग्रन्थिपर्णे गोसो बोलविभातयोः ॥ ५६५ ॥
2.30.565
अनुष्टुप्
चास इक्षुपक्षिभेदोश्छन्दः पद्येच्छयोः श्रुतौ ।ज्यायान् वृद्धे प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ॥ ५६६ ॥
2.30.566
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्षु (wrong syllable)
प्रकाशे दृशि नक्षत्रे तपः कृच्छ्रादिकर्मणि ।धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥ ५६७ ॥
2.30.567
अनुष्टुप्
तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले ।त्रासो भये मणिदोषे तेजस्त्विड्रेतसोर्बले ॥ ५६८ ॥
2.30.568
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable); pāda 3, syllable 6 णि (wrong syllable)
नवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः ।वृषले दानपात्रे च दासी झिण्ट्यपि चेट्यपि ॥ ५६९ ॥
2.30.569
अनुष्टुप्
धनुः शरासने राशौ पियालर्दौ धनुर्धरे ।नभो व्योम्नि नभा घ्राणे विसतन्तौ पतद्ग्रहे ॥ ५७० ॥
2.30.570
अनुष्टुप्
प्रावृषि श्रावणे नासा घोणा द्वारोर्ध्वदारुणोः ।पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥ ५७१ ॥
2.30.571
अनुष्टुप्
बर्हिः कुशेऽग्नौ भासस्तु भासि गृद्ध्रशकुन्तयोः ।महस्तेजस्युत्सवे च मिसिर्मांस्यजमोदयोः ॥ ५७२ ॥
2.30.572
अनुष्टुप्
शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका ।रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ॥ ५७३ ॥
2.30.573
अनुष्टुप्
चोले रागे देहधातौ तिक्तादौ पारदेऽपि च ।रसा तु रसनापाठामल्लकीक्षितिकङ्गुषु ॥ ५७४ ॥
2.30.574
अनुष्टुप्
रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः ।स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥ ५७५ ॥
2.30.575
अनुष्टुप्
भाषाशृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः ।वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि ॥ ५७६ ॥
2.30.576
अनुष्टुप्
गूथे रूपे वसुस्त्वग्नौ देवभेदे नृपे रुचि ।योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥ ५७७ ॥
2.30.577
अनुष्टुप्
वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः ।वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥ ५७८ ॥
2.30.578
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मु (wrong syllable)
विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु ।शंसा वचसि वाञ्छायां शिरोमूर्द्धप्रधानयोः ॥ ५७९ ॥
2.30.579
अनुष्टुप्
सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः ।सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५८० ॥
2.30.580
अनुष्टुप्
स्रोतः प्रवाहेन्द्रिययोर्हंसोऽर्के मत्सरे च्युते ।खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ॥ ५८१ ॥
2.30.581
अनुष्टुप्
निर्लोभनृपतौ प्रणवाते श्रेष्ठेऽग्रतः स्थितः ।हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ॥ ५८२ ॥
2.30.582
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)