कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

चतुःस्वरकाण्डः · चतुःस्वरधान्ताः

इति चतुःस्वरदान्ताः ।

अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि ।प्रकृतस्यानुवर्ते च दोषस्यापादनेऽपि च ॥ १५२ ॥
4.14.152
अनुष्टुप्
अनुबन्धी तृषा हिक्काऽवरोधस्तु नृपौकसि ।शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ॥ १५३ ॥
4.14.153
अनुष्टुप्
अवष्टब्धमदूरे स्यात्समाक्रान्तेऽवलम्बिनि ।अनिरुद्धश्चरे पुष्पायुधसूनावनर्गले ॥ १५४ ॥
4.14.154
अनुष्टुप्
आशाबन्धः समाश्वासे मर्कटस्य च जालके ।इष्टगन्धः सुगन्धि स्यादिष्टगन्धं तु वालुके ॥ १५५ ॥
4.14.155
अनुष्टुप्
इक्षुगन्धा काशक्रोष्ट्रीकोकिलाक्षेषु गोक्षुरे ।उग्रगन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधौ ॥ १५६ ॥
4.14.156
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके ।तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधे ॥ १५७ ॥
4.14.157
अनुष्टुप्
शोभाञ्जने राजिकायां परिव्याधो द्रुमोत्पले ।वेतसे महौषधं तु विषाशुण्ठ्योः रसोनके ॥ १५८ ॥
4.14.158
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 म (wrong syllable)
ब्रह्मबन्धुर्निन्द्यविप्रे ब्राह्मणस्य च बान्धवे ।समुन्नद्धस्तूर्द्ध्वबद्धे पण्डितंमन्यदृप्तयोः ॥ १५९ ॥
4.14.159
अनुष्टुप्