कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Anekārthasaṅgraha

अनेकार्थसङ्ग्रह Anekārthasaṅgraha

1,980 verses · text only, tagging comes next

त्रिस्वरकाण्डः · त्रिस्वरवान्ताः

इति त्रिस्वरलान्ताः ।

अभावः पुनर्मृतौ ।असत्तायामथाक्षीबं वशिरे मदवर्जिते ॥ ७३० ॥
3.25.730
अनुष्टुप्metre not read in every line
आवहः समरे यज्ञेऽप्याश्रवो वचनस्थिते ।प्रतिज्ञायां च क्लेशे च स्यादार्तवमृतूद्भवे ॥ ७३१ ॥
3.25.731
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
नारीरजसि पुष्पे चोद्धवः केशवमातुले ।उत्सवे क्रतुवह्नौ चोत्सवोऽमर्षे महेऽपि च ॥ ७३२ ॥
3.25.732
अनुष्टुप्
इच्छाप्रसर उत्सेके कारवी कृष्णजीरके ।दीप्ये मधुरात्वक्पत्र्योः कितवः कनकाह्वये ॥ ७३३ ॥
3.25.733
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
मत्ते च वञ्चके चापि केशवः केशसंयुते ।पुन्नागे वासुदेवे च कैतवं द्यूतदम्भयोः ॥ ७३४ ॥
3.25.734
अनुष्टुप्
कैरवः कितवे शत्रौ कैरवं सितपङ्कजे ।कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ ७३५ ॥
3.25.735
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे ।अन्तराभवदेहे च गालवो मुनिलोध्रयोः ॥ ७३६ ॥
3.25.736
अनुष्टुप्
गाण्डीवगाण्डिवौ चापमात्रे पार्थधनुष्यपि ।ताण्डवं तृणभिन्नाट्यभेदयोस्त्रिदिवं तु खे ॥ ७३७ ॥
3.25.737
अनुष्टुप्
स्वर्गे च त्रिदिवा नद्यां द्विजिह्वः खलसर्पयोः ।निह्नवः स्यादविश्वासे प्रलोपे निकृतावपि ॥ ७३८ ॥
3.25.738
अनुष्टुप्
निष्पावः पवने सूर्पपवने निर्विकल्पके ।वल्ले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ ७३९ ॥
3.25.739
अनुष्टुप्
आद्योपलम्भनस्थानेऽपां मूले मुनिभिद्यपि ।प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ ७४० ॥
3.25.740
अनुष्टुप्
उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोर्दृतौ ।प्रभावस्तेजसि शक्तौ पल्लवः किसले वटे ॥ ७४१ ॥
3.25.741
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable)
विटपे विस्तरेऽलक्तरागे श्रृङ्गारषिड्गयोः ।पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपि च ॥ ७४२ ॥
3.25.742
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
पार्थिवो नृपतौ भूमिविकारे पार्थिवी तु का ।पुङ्गवो गवि भैषज्ये प्रधाने चोत्तरस्थितः ॥ ७४३ ॥
3.25.743
अनुष्टुप्
फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः ।भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ ७४४ ॥
3.25.744
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 शु (wrong syllable)
दैत्याचार्ये भार्गवी तु कृष्णदूर्वोमयोः श्रियाम् ।भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः ॥ ७४५ ॥
3.25.745
अनुष्टुप्
विष्णो वसन्ते वेशाखे माधवी मधुशर्करा ।वासन्ती कुट्टिनी हाला राघवोऽब्धेर्झषान्तरे ॥ ७४६ ॥
3.25.746
अनुष्टुप्
रघुजेऽप्यथ राजीवो मीनसारङ्गभेदयोः ।राजीवमब्जे रौरवो भीषणे नरकान्तरे ॥ ७४७ ॥
3.25.747
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रौ (wrong syllable)
बल्लवः स्यात्सूपकारे गौदोग्धरि वृकोदरे ।वडवाऽश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥ ७४८ ॥
3.25.748
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 यां (wrong syllable)
वाडवं करणे स्त्रीणां वडवौघे रसातले ।वाडवो विप्र और्वे च विद्रवो धीः पलायनम् ॥ ७४९ ॥
3.25.749
अनुष्टुप्
विभावः स्यात्परिचये रत्यादीनां च कारणे ।विभवो धननिर्वृत्योः शात्रवं शत्रुसम्भवे ॥ ७५० ॥
3.25.750
अनुष्टुप्
शत्रुत्वे शात्रवः शत्रौ षाण्डवो रसभावयोः ।सम्भवो जनने हेतौ मेलके चारुजन्मनि ॥ ७५१ ॥
3.25.751
अनुष्टुप्
आधेयस्याधारानतिरिक्तत्वे समयेऽपि च ।सचिवो भृत्यकेऽमात्ये सुषवी कृष्णजीरके ॥ ७५२ ॥
3.25.752
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रा (wrong syllable)
कारवेल्ले च जीरे च सुग्रीवो वानराधिपे ।चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये ॥ ७५३ ॥
3.25.753
अनुष्टुप्
मणिमन्थेऽपि -
3.25.25