All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरदान्ताः
इति त्रिस्वरथान्ताः ।
अर्बुदः पर्वते मांसकीलके दशकोटिषु ॥ ३५२ ॥
3.15.352
अर्द्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ।गलहस्ते नखाङ्केऽर्द्धचन्द्रेऽङ्गदस्तु वालिजे ॥ ३५३ ॥
3.15.353
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
अङ्गदं तु केयूरे स्यादङ्गदा याम्यदिग्गजी ।आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः ॥ ३५४ ॥
3.15.354
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 के (wrong syllable)
आक्रन्दो दारुणरणे सारावरुदिते नृपे ।क्षमदं तोये क्षणदो गणके क्षणदा निशि ॥ ३५५ ॥
3.15.355
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ये (wrong syllable)
कपर्दः पार्वतीभर्त्तुर्जटाजूटे वराटके ।कर्णान्दुः स्यात्कर्णपाल्युत्क्षिप्तिका कुमुदः कपौ ॥ ३५६ ॥
3.15.356
अनुष्टुप्
दिङ्नागनागयोर्दैत्यविशेषे च सितोत्पले ।कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने ॥ ३५७ ॥
3.15.357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म्भी (wrong syllable)
वृद्ध्याजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा ।गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ ॥ ३५८ ॥
3.15.358
अनुष्टुप्
गोष्पदं गोखुरे श्वभ्रे गवां च गतिगोचरे ।जलदो मुस्तके मेघे जीवदो रिपुवैद्ययोः ॥ ३५९ ॥
3.15.359
अनुष्टुप्
ग्रन्थपर्णे तमोभित्तु शशिमार्तण्डवह्निषु ।तोयदो मुस्तके मेघे तोयदं नवनीतजे ॥ ३६० ॥
3.15.360
अनुष्टुप्
दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च ।दायादौ सुतसपिण्डौ दोहदो गर्भलक्षणे ॥ ३६१ ॥
3.15.361
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
अभिलाषे तथा गर्भे धनदौ दातृगुह्यकौ ।नलदा मांस्यां नलदमुशीरमकरन्दयोः ॥ ३६२ ॥
3.15.362
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्यां (wrong syllable)
नर्मदा रेवानर्माल्योर्निषादः श्वपचे स्वरे ।निर्वादस्त्यक्तवादे च प्रमदो मुदि मत्तके ॥ ३६३ ॥
3.15.363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु ।काव्यगुणे प्रह्लादस्तु निनादे दानवान्तरे ॥ ३६४ ॥
3.15.364
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 व्य (wrong syllable)
प्रतिपत्संविदि तिथौ प्रासादो राजमन्दिरे ।देवतायतने चापि मर्यादा स्थितिसीमयोः ॥ ३६५ ॥
3.15.365
अनुष्टुप्
माकन्दः स्यात्सहकारे माकन्द्यामलकीफले ।मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे ॥ ३६६ ॥
3.15.366
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ह (wrong syllable)
मेनादः केकिनि च्छागे मार्जारे वरदः पुनः ।प्रसन्ने शान्तचिन्ते च वरदा तु कुमारिका ॥ ३६७ ॥
3.15.367
अनुष्टुप्
विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे ।शरद्भवे पतीमुद्गे शालीनेऽप्यथ शारदी ॥ ३६८ ॥
3.15.368
अनुष्टुप्
सप्तपर्णाम्बुपिप्पल्योः सम्भेदः सिन्धुसङ्गमे ।पुष्पादीनां विकासेऽपि स्यात्सुनन्दा तु रोचना ॥ ३६९ ॥
3.15.369
अनुष्टुप्
जननी बाहुबलिनोऽपि-
3.15.19