All kośas › Anekārthasaṅgraha
अनेकार्थसङ्ग्रह Anekārthasaṅgraha
1,980 verses · text only, tagging comes next
त्रिस्वरकाण्डः · त्रिस्वरटान्ताः
इति त्रिस्वरञान्ताः ।
अरिष्टं सूत्यगारेऽन्तश्चिह्ने तक्रे शुभेऽशुभे ।अवटुर्गर्तान्धुघाटासूत्कटस्तीव्रमत्तयोः ॥ १५२ ॥
3.8.152
अनुष्टुप्
उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च ।करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ १५३ ॥
3.8.153
अनुष्टुप्
काके वाद्ये दुर्दुरूढे नवश्राद्धेऽथ कर्कटः ।कुलीरे करणे स्त्रीणां राशौ खगेऽथ कर्कटी ॥ १५४ ॥
3.8.154
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ख (wrong syllable)
शाल्मलीफलवालुङ्क्योः कार्पटो जतुकाऽर्थिनोः ।कीकटः कृपणे नीचे देशभेदे तुरङ्गमे ॥ १५५ ॥
3.8.155
अनुष्टुप्
कुरण्टो झिटिकाभेदे कुरण्टी दारुपुत्रिका ।कुक्कुटः कुक्कुभे ताम्रचूडे वह्निकणेऽपि च ॥ १५६ ॥
3.8.156
अनुष्टुप्
निषादशूद्रयोः पुत्रे कृपीटं चोदरे जले ।चक्राटो धूर्त्ते दीनारे विषवैद्येऽथ चर्पटः ॥ १५७ ॥
3.8.157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्त्ते (wrong syllable)
चपेटे स्फारविपुले पर्पटे चिपिटः पुनः ।पृथुके पिच्चटे खाद्यभेदे स्याद्विस्तृतावपि ॥ १५८ ॥
3.8.158
अनुष्टुप्
चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम् ।जकुटं वार्ताकपुष्पे जकुटो यमले शुनि ॥ १५९ ॥
3.8.159
अनुष्टुप्
त्र्यङ्गटं शिक्यभेदे स्याद्धौताञ्जन्यामपि स्मृतम् ।त्रिकूटं सिन्धुलक्षणे त्रिकूटः स्यात्सुवेलके ॥ १६० ॥
3.8.160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्ष (wrong syllable)
त्रिपुटौ तीरसतीनौ त्रिपुटा त्रिवृदौषधौ ।सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके ॥ १६१ ॥
3.8.161
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
चतुष्पदीप्रभेदे च बैडालव्रतिकेऽपि च ।धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने ॥ १६२ ॥
3.8.162
अनुष्टुप्
निर्दयेऽन्यदोषरते निष्कुटो गृहवाटिका ।केदारकः कपाटश्च पर्पटो भेषजान्तरे ॥ १६३ ॥
3.8.163
अनुष्टुप्metre not read in every line
पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः ।स्यात्पर्क्कटी प्लक्षतरौ पूगादेर्नूतने फले ॥ १६४ ॥
3.8.164
अनुष्टुप्metre not read in every line
पिच्चटस्तु नेत्ररोगे पिच्चटं त्रपुसीसयोः ।बर्वटी व्रीहिभिद्वेश्या बार्वटः कान्तिपुज्जके ॥ १६५ ॥
3.8.165
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
वारुण्डे मकरे पोके भाकूटः शैलमीनयोः ।भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमर्पके ॥ १६६ ॥
3.8.166
अनुष्टुप्
मर्कटी करञ्जभेदः शूकशिम्बी च वानरी ।बीजं च राजकर्कट्याः प्राचीनामलकस्य च ॥ १६८ ॥
3.8.168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
गवेधुकाफलं चापि चक्राङ्गीकरजान्तरम् ।मोरटं त्विक्षुमूले स्यादङ्कोटकुसुमेऽपि च ॥ १६९ ॥
3.8.169
अनुष्टुप्
सप्तरात्रात्परं क्षीरे मोरटा मूर्विका मता ।मोचाटः कदलीगर्भे चन्दने कृष्णजीरके ॥ १७० ॥
3.8.170
अनुष्टुप्
रेवटो दक्षिणावर्तशङ्खे जाङ्गुलिकेऽपि च ।रेवटो (?) सोरटे वेणौ स्याद्वातूलवराहयोः ॥ १७१ ॥
3.8.171
अनुष्टुप्
वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने ।वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ ॥ १७२ ॥
3.8.172
अनुष्टुप्
कराले सुन्दरे वाटे वेकटो जातयौवने ।वैकटिके मणिकारे वेरटो मिश्रनीचयोः ॥ १७३ ॥
3.8.173
अनुष्टुप्metre not read in every line
वेरटं बदरीफले शैलाटो मृगवैरिणि ।शुक्लकाचे किराते च देवले गिरिचारिणि ॥ १७४ ॥
3.8.174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 फ (wrong syllable)
संसृष्टं तु सङ्गते स्याच्छुद्धे च वमनादिना ।हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च ॥ १७५ ॥
3.8.175
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)